________________
श्रीधर्मरत्न - प्रकरणम्
॥१२८॥
उपभोगाङ्गानि तडागादिषु न नेतव्यानि, अन्यथा हि पिङ्गादयस्तानि भुञ्जते, ततश्वात्मनो निरर्थककर्मबन्धादिदोषः । अयमपि विषयात्मकत्वात् प्रमादाचरितस्यातिचारः । अपध्यानवते त्वनाभोगादिना प्रवृत्तिरतिचारः । आकुटया प्रवृत्तौ भङ्ग एव । एवं कन्दर्पादिष्वपि यथासम्भवमाकुट्या प्रवृत्तिर्भङ्गरूपैव वाच्येति ।
उक्तमनर्थदण्डविरमणव्रतम् ।
एतानि त्रीण्यपि दिखतादीनि गुणव्रतान्युच्यन्ते, अणुव्रतानां गुणाय - उपकाराय व्रतानि गुणव्रतानीति कृत्वा । भवति ह्यणुव्रतानां गुणवतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति ।
तदेवमभिहिता गुणव्रतलक्षणास्त्रय उत्तरगुणाः ।
अथोत्तरगुणचतुष्टयरूपाणि शिक्षाव्रतान्युच्यन्ते
तत्र शिक्षा - अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवार्हाणीत्यर्थः । तानि च सामायिकादीनि चत्वारि । तत्र समस्य-रागद्वेषविरहितस्य जीवस्य आयः - लाभः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैरधः कृतचिन्तामणिकल्पद्रुमादिप्रभावैर्निरुपमसुखहेतुभिर्युज्यते । समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, सावद्यपरित्यागनिखद्यासेवनरूपो व्रतविशेष इत्यर्थः ।
इदं च सर्वारम्भप्रवृत्तेन गृहिणा गृहवासमहानीरधेर्निरन्तरोच्छ्रयितातुच्छप्रचुरव्यापारवीचीचयावर्त्तजनिताकुलत्वविच्छेदकं अतिप्रचण्डमोहनरपतिबलतिरस्करणमहायोधकल्पं प्रतिदिवसमन्तराऽन्तरा यत्नेन कर्त्तव्यम् ।
Jain Education International
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं लक्षणम्
२
॥१२८॥
www.jainelibrary.org