________________
इत्यादिनिष्प्रयोजनासमञ्जसचिन्तारूपम् । प्रमादः-मद्यविषयकषायनिद्राविकथालक्षणः,तेन तस्य वा आचरितम्-अनुष्ठानं प्रमादाचरितम्,अथवा आलस्योपहतचेष्टितं प्रमादाचरितमुच्यते । तच्च बहुजीवोपघातहेतुभूतं अस्थगितघृततैलभाजनधारणादि।
हिंसनशील हिंस्र शस्त्रानलहलोदूखलविषादि, तस्य प्रदानं-अन्यस्मै समर्पणं हिंस्रप्रदानम् । पापहेतुत्वात् पापं कर्म-कृष्यादिक्रियारूपं तस्योपदेशः पापकर्मोपदेश इति चतुर्विधोऽनर्थदण्डः तस्माद्विरमणमनर्थदण्डविरमणम् ।
अत्रापि पञ्चातिचारा वर्जनीयाः। तद्यथाकन्दर्पः कौत्कुच्यं मौखयं संयुक्ताधिकरणता उपभोगपरिभोगातिरेक इति ।
तत्र कन्दर्पः-कामः, तदुद्दीपको हास्यप्रधानस्तथाविधवाझयोगोऽपि तद्धेतुत्वात् कन्दर्पः। परेषां हास्यजनकं बहुविधनेत्रसको चादिविक्रियागर्भ भाण्डानामिव चेष्टितं कौत्कुच्यम् । एतौ च द्वावप्यतिचारौ प्रमादाचरितस्य द्रष्टव्यौ, तद्रूपत्वादिति ।
मुखमस्यास्तीति मुखरो-वाचालः, तस्य कर्म मौखर्य-धाष्टर्थमायमसत्यासम्बद्धप्रलापित्वम् । अयं च पापकर्मोपदेशस्यातिचारः, मौखये सति पापकर्मोपदेशसम्भवात् ।
अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-तूणीरधनुर्मुशलोदूखलारघट्टादि । संयुक्तम्-अर्थक्रियाकरणयोग्यं प्रगुणीकृतं तच्च तदधिकरणं संयुक्ताधिकरणं न धरणीयम् , प्रगुणं हि तद् दृष्ट्वाऽन्योऽपि याचत इति भावः । अयं हिंस्रप्रदानस्यातिचारः। __उपभोगपरिभोगयोरतिरेकः-आधिक्यमुपभोगपरिभोगातिरेकः। इह किल स्वोपयोगिभ्योऽधिकानि ताम्बूलमोदकमण्डकादीनि
JainEducation
For Private Personal Use Only