________________
श्रीधर्मरत्न
प्रकरणम्
॥१२७॥
निर्लाञ्छनकर्म-बलीवर्दतुरगादीनां वर्धितककरणम् १२ । दवाग्निदानं - सुज्ञेयम्, तच्च किल भूमिषु तरुणतृणरोहणार्थं केचित् कुर्वन्ति १३ । सरोद्द्दतडागादिशोषणमपि तत्र धान्यादिवपनार्थं प्रसिद्धमेव १४ । असतीपोषण – ये केचित् दासीः पोषयन्ति, तत्सम्बन्धिनीं च भाटीं गृह्णन्ति, यथा गोल विषय इति १५ ।
एतानि पञ्चदश कर्मादानानि षड्विधजीवघातादिमहासावद्यहेतुत्वाद् वर्जनीयानि, उपलक्षणमात्रमेतानि, अन्यान्यप्येवंजातीयकानि बहुसावद्यानि कर्माणि परिहार्याण्येव ।
आह--- नन्वङ्गारकर्मादयः खरकर्मस्वरूपा एव, ततश्च येन खरकर्म प्रत्याख्यातं तेनैते प्रत्याख्याता एवेति तेषु वर्त्तमानस्य भङ्ग एव स्यात् कथमतिचारता ? सत्यमिदम्, यत आकुट्या प्रवर्त्तमानस्य भङ्ग एव, अनाभोगातिक्रमादिना तु तत्करणेऽतिचारताऽवगन्तव्येति । उक्तमुपभोगपरिभोगव्रतम् । इदानीमनर्थदण्डविरमणव्रतमुच्यते
तत्रार्थ:- प्रयोजनं तदभावोऽनर्थः, दण्डयते आत्मा अनेनेति दण्डः - पापबन्धादिरूपो निग्रहः, अनर्थेन - प्रयोजनाभावरूपेण निजजीवस्य दण्डोऽनर्थदण्डः ।
Jain Education International
स पुनश्चतुर्विधस्तद्यथाअपध्यानं प्रमादाचरितं हिंस्रप्रदानं पापकर्मोपदेश इति ।
तत्रापध्यानम् —
66
'कइया वच्च सत्थो १, किं भंडं ? कत्थ कित्तियं भूमिं १ । को कयविकयकालो १, निव्विसई किं कहिं केण १ ॥ "
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं
लक्षणम्
२
॥१२७॥
www.jainelibrary.org