________________
तथा अपक्वायाः-अग्न्यसंस्कृताया औषधेः-गोधूमादिधान्यरूपाया भक्षणमेव भक्षणतातिचारः। इदमुक्तं भवति-पिष्टत्वादचेतनमिति सम्भावनया सम्भवत्सचित्तावयवं वह्वयसंस्कृतं कणिक्कादिकं भक्षयतोऽतिचारः।
तथा दुष्पक्वायाः-वहिना संस्कृतासंस्कृतस्वरूपत्वेन सम्भवत्सचित्तावयवाया औषधेः-पृथुकादिरूपाया भक्षणतातिचारः । तुच्छा:-तथाविधतृप्त्यजनकत्वेन असारा औषधयः-कोमलमुद्गादिफलीरूपास्तद्भक्षणतातिचारः।
आह-ननु यद्येताः सचेतनास्तहि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्ततिचार एव न सम्भवति, सत्यम् , किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तस्याचेतना अप्येता भक्षयतस्तथाविधतृप्त्यसम्पादकत्वाद् लौल्यमेवावशिष्यते, अतोऽचेतनीकृत्याप्येता न भक्षणीयाः, तद्भक्षणेतु वस्तुतो व्रतविराधनादतिचारः।
एवं रात्रिभोजनमांसादिव्रतेषु वस्त्रादिपरिभोगवतेषु चानाभोगातिक्रमादिनाऽतिचाराः स्वयमभ्यूह्याः, उपलक्षणमात्रत्वादमीषामिति । ___ कर्मतस्तु पञ्चदशातिचारा वर्जनीयाः, के च अङ्गारादिकर्मरूपाः । तत्राङ्गारकर्म-यत्राङ्गारान् कृत्वा विक्रीणीते १। वनकर्म-यत्र समुदितं वनं क्रीत्वा ततश्छिचा विक्रीय च तल्लाभेन जीवति २ । शकटिकर्म-यत्र शाकटिकत्वेन निर्वहति ३ । भाटीकर्म-यत्र खकीयगन्त्र्यादिना परकीय भाण्डं वहति, अन्येषां वा भाटकेन शकटबलीवर्दादीनर्पयति ४ । स्फोटीकर्म-उडत्वं यद्वा हलेन भूमेः स्फो
टनम् ५। दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्राणां दन्तानयननिमित्तं मूल्यं ददाति ततस्ते गत्वा तदर्थ हस्तिनो घ्नन्ति एवं | शङ्खचर्मादिमूल्यदानमपीह वाच्यम् ६ । लाक्षावाणिज्यं प्रतीतम् ७ । रसवाणिज्यं-मदिरादिविक्रयः ८। केशवाणिज्यं -यत्र दास्यादिजीवान् गृहीत्वा अन्यत्र विक्रीणीते ९ । विषवाणिज्यं प्रसिद्धम् १० । यन्त्रपीडनकर्म-तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११ ।
Jain Education lian
For Private Personel Use Only