SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न - प्रकरणम् ॥ १२६॥ Jain Education मूला तह भूमिरुहा, विरुहाईं ढक्कवत्थुलो पढमो । सूयरवल्लो य तहा पल्लको कोमलंबिलिया ॥ आलुय तह पिंडालु, समभंगमहीरुगाइ लक्खणओ । जाणेज्जऽणंतकायं अन्नं पि जिणेहि निद्दिहं ॥ " इति समयोक्तानन्तकायान् बहुबीजानि मांसादिकं च वर्जयति । पाने - मांसरसमित्यादि, खादिमे - वटपिप्पलोदुम्बरप्लक्षकाकोदुम्बरफलानि समये पञ्चोदुम्बरीत्याख्यया प्रसिद्धानि नियमयति, स्वादिमेतु - मध्वादि, शेषेऽप्यल्पसावद्ये ओदनादावचित्तभोजित्वादिकं परिमाणनैयत्यं विधेयम् । अत्यन्तचेतोगृद्धयुन्मादापवादादिजनकं वस्त्रवाहनालङ्कारादिकं वर्जयेत्, शेषेऽपि माननियतता कार्येति । कर्मतोऽपि श्राद्धेन तावत् कर्म न किश्चित् कर्त्तव्यम्, निरारम्भतयैव स्थातव्यम् । अथैवं न निर्वहति तदा निस्त्रिंशजनोचितानि बहुसावद्यानि - कोट्टपाल - गुप्तिपालादिकर्मलक्षणानि खरकर्माणि - हलमुशलोदूखलशस्त्रलोहविक्रयादिलक्षणानि च वर्जयित्वा अल्पसाव - द्यमेव कर्म विदधाति । अत्रापि भोजनतः पञ्चातिचारा वर्जनीयाः । तद्यथा - सचित्ताहारे सचित्तपडिबद्धाहारे अप्पोलिओसहिभक्खणया दुप्पोलिओसहिभक्खणया तुच्छोसहिभक्खणया । एते च प्रत्याख्यातसचित्तस्याचित्तभोजिनोऽतिचारा द्रष्टव्याः । अस्य चानाभोगातिक्रमादिना कन्दादिसचित्तस्याहारोऽतिचारः । तथा सचित्ते आग्रगोधिकादौ प्रतिबद्धं पक्कत्वगादीति गम्यते, मुखे प्रक्षिप्य पक्वत्वगाद्येवाचितं भक्षयिष्यामि सचित्तं त्वगस्थिकं त्यक्षामीति बुद्ध्या सचितप्रतिबद्धस्याहारोऽतिचारः, व्रतसापेक्षत्वात् । For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥१२६॥ Jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy