________________
दतो न स्मरति, किं शतं पञ्चाशद्वा? इति । तेन चैवमुभयांशावलम्बिनि संशये पञ्चाशतमेव यावद् गन्तव्यम् , तत्परतोऽपि गच्छतोऽतिचारः, शतादपि परेण गच्छतस्तु भङ्ग इति ।
उक्तं दिखतम् , इदानीमुपभोगपरिभोगव्रतमुच्यते
इदं च द्विधा–भोजनतः कर्मतश्च । तत्र उप इति-सकृदंतर्वा भुज्यते इत्युपभोगोऽन्नपानादि, परीति-पुन:पुनर्बहिर्वा भुज्यत इति परिभोगो हिरण्यवस्त्रादि ।
आह-ननु यद्यत्र हिरण्यादय उपभोगपरिभोगशब्दवाच्यास्तर्हि कर्मत इदं व्रतं नोपपद्यते, कर्मशब्दस्य क्रियावचनत्वेन युष्माकमभिप्रेतत्वात , कर्मणश्चोपभुज्यमानत्वपरिभुज्यमानयोरसंभवात् । सत्यम्-किन्तु कर्मणो वाणिज्यादेरुपभोगपरिभोगकारणत्वाद "कारणे च कार्योपचारात" कर्मण एवोपभोगपरिभोगवाच्यता विवक्षितेत्यलं चर्चया। उपभोगपरिभोगयोतं नियतपरिमाणादिकरणमुपभोगपरिभोगवतम् । तत्र भोजनतस्तावत् श्रावकेण प्रासुकैषणीयभोजिना भवितव्यम् , तदभावेऽनेषणीयमप्यचित्तं, तदसत्त्वे तु बहुसावद्यमशनादिकं परिहरति ।
तत्राशने तावत्"सव्वा य कन्दजाई, सूरणकन्दो य वजकन्दो य । अल्लहलिद्दा य तहा, अल्लं तह अल्लकच्चूरो॥ सत्तावरी विराली, कुमारि तह थोहरी गलोई य। ल्हसणं वंसकरिल्ला, गज्जर तह लोणओ लोढा ॥ गिरिकण्णि किसलपत्ता, कसेरुया थेग अल्लमुत्था य । तह लोण रुक्खछल्ली, खिल्लूडो अमयवल्ली य॥
BADMASase
Jain Education
For Private Personel Use Only
linelibrary.org