SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्न प्रकरणम् ॥१२५॥ कृतव्रतज्ञानाख्य लक्षणम् कुप्यं-शयनासनकुन्तखड्गभाजनकच्चोलकादिगृहोपस्कररूपम्, तत्प्रमाणस्य भावेन-पर्यायान्तररूपेणातिक्रमोऽतिचारो भवति । यथा किल केनापि कच्चोलकदशकलक्षणं कुप्यमानं कृतम् , कथञ्चिच्च तदधिकसंभवे सति व्रतभङ्गभयाद्भञ्जयित्वा बहुभिरपि पर्यायान्तरेण दशैव कारयतः स्वसंख्यापूरणात् स्वाभाविकसंख्यावाधनाच्चातिचार इति । ____ तदेवमभिहितानि पश्चाणुव्रतानि, एतानि च मूलगुणा उच्यन्ते, श्रावक धर्मतरोमूलकल्पत्वात्। दिग्वतादीनि तु तदुपचयलक्षणगुगनिबन्धनतयैवात्मसत्तां बिभ्रति, ततस्तानि श्रावकधर्मद्रुमस्य शाखाप्रशाखाकल्पान्युत्तरगुणा इत्याख्यायन्ते । उत्तररूपा गुणा उत्तरगुणाः, उपचयहेतव इत्यर्थः । ते चोत्तरगुणा गुणव्रतादयः सप्त । तत्रोधिस्तिर्यदिग्गमनपरिमाणकरणलक्षणं तावदिग्वतमुच्यते-अत्रापि पश्चातिचारा वर्जनीयाः। तद्यथाऊर्ध्व दिक्प्रमाणातिक्रमो अधोदिपमाणातिक्रमः तियग्दिक्प्रमाणातिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । तत्राद्यास्त्रयोऽतिचाराःसुबोधा एव । नवरमूर्खादिदिशांगमनमाश्रित्य प्रमाणस्यातिक्रमोऽतिचारोऽनाभोगादिना अतिक्रमव्यतिक्रमादिनावा प्रवृत्तस्य द्रष्टव्यः, अन्यथा भङ्ग एव स्यादिति भावः।। क्षेत्रवृद्धिस्त्वेवं भावनीया-यथा केनचित् सर्वास्वपि दिक्षु प्रत्येकं योजनशतात् परतो गमननियमः कृतः, ततश्च पूर्वस्यां दिशि भाण्डं गृहीत्वा योजनशतं यावद् गतः, ततोऽपि परतो भाण्डं बहुतरं मूल्यमवाप्नोत्यतः 'अपरस्यां योजननवतिमेव यास्यामि इति चेतसि व्यवस्थाप्य पूर्वस्यां दिशि दशयोजनानि क्षेत्रवृद्धिं कृत्वा दशोत्तरं योजनशतं गच्छतस्तस्य व्रतसापेक्षत्वात् क्षेत्रवृद्धिलक्षणोऽतिचारः। स्मृतेः-स्मरणस्यान्तर्धानम् , यथा केनापि पूर्वस्यां दिशि योजनशतं गमनपरिमाणं कृतम्, गमनकाले च स्पष्टतया तत् प्रमा ॥१२५॥ Jain EducaticalhamI For Private Personel Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy