SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मीलनेनातिक्रमोऽतिचारो भवति । तथाहि-किल 'एकमेव क्षेत्रं वास्तु वा' इत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैककरणार्थ वृत्याद्यपनयनेन तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद् विरतिबाधनाचातिचार इति। हिरण्यं-रजतम् , सुवर्ण-प्रसिद्धम् , तत्पमाणस्य प्रदानेन-वितरणेनातिक्रमोऽतिचारो भवति । यथा-केनापि चातुर्मास्याद्यवधिना | हिरण्यादिप्रमाणं विहितम् , ततस्तेन तुष्टराजादेः सकाशात्तदधिकं तत् कथमपि लब्धम् , तच्च व्रतभङ्गभयात् 'पूर्णे व्रतावधौ ग्रहीष्यामि' इति भावनयाऽन्यस्य हस्ते दत्त्वा मुश्चतीति व्रतसापेक्षत्वादतिचार इति । धनं-गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधम्। तत्र गणिमं पूगफलादि, परिमं मञ्जिष्ठादि, मेयं घृतादि, पारिच्छेद्यं माणिक्यादि । धान्यं व्रीह्यादि। एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति । यथा-कृतधनादिपरिमाणः कोऽपि पूर्वलभ्यमन्यद्वा धनादिकं कस्यापि पावें लभते, तच्च व्रतभङ्गभयात् 'चातुर्मास्यादिपरतो गृहगतधान्यादिविक्रये वा कृते ग्रहीष्यामि' इत्येवं बन्धनेनवचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यङ्कारदानादिस्वरूपेण वा स्वीकृत्य यदा दायकादिगेह एव तद्धरति तदाऽतिचार इति। द्विपदं-पुत्रकलत्रदासीकर्मकरशुकसारिकादि, चतुष्पदं-गवाश्वादि, तयोर्यत् प्रमाणं तस्य कारणेन-गर्भविधापनेनातिक्रमोऽतिचारो भवति । यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतम्, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावतो व्रतभङ्गः स्यात्, अतस्तद्भयात् कियन्तमपि कालमतिबाह्य गर्भग्रहणं कास्यतोऽतिचारः, गर्भगताधिकद्विपदादिभावाद् बहिरनिर्गमनेन तदभावकल्पनाच्च व्रतभङ्गाभङ्गाप्राप्तेः। Jain Education For Private Personel Use Only ainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy