________________
C
श्रीधर्मरत्नप्रकरणम् ॥१२४ ॥
आहाकम्मनिमंतण, पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइक्कम, गहिए तइएयरो गिलिए ॥
एवमेतदनुसरतोऽप्यन्यत्राप्याद्यपदत्रयेऽतिचारता भावनीया, अतिक्रमव्यतिक्रमयोरप्यतिचारभेदत्वात् चतुर्थपदे तु विवक्षितव्रतभङ्ग इत्यलं प्रसङ्गेन । तदित्थं पश्चातिचारा योषितोऽपि भाविता इति ।
उक्तं सातिचारं चतुर्थमणुव्रतम् ।
अथ स्थूलपरिग्रहविरमणलक्षणं पञ्चम, तदुच्यतेतत्र स्थूलः-अपरिमितः स चासौ परिग्रहः स्थूलपरिग्रहः, स च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यद्विपदचतुष्पदकुप्यलक्षणनवविधवस्तुविषयत्वान्नवविधः, तस्य स्वकीयावस्थानुरूपं विरमणं पञ्चममणुव्रतम् ।
अत्रापि पञ्चातिचारा वर्जनीयाः, तद्यथाक्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमःधनधान्यप्रमाणातिक्रमः द्विपदचतुष्पदप्रमाणातिक्रमः कुप्यप्रमाणातिक्रमश्चेति।
उक्तं चखित्ताइ-हिरनाई-धणाइ-दुपयाइ-कुप्पमाणकमा । जोयण-पयाण-बंधण-कारण-भावेहि नो कुणइ ।।
तत्र क्षेत्रम्-सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् त्रिधा । तत्र सेतुक्षेत्रमरघट्टादिसेच्यम् , केतुक्षेत्रं पुनराकाशोदकनिष्पाद्यम् , उभयक्षेत्रं तु तदुभयहेतुकमिति । वास्तु-अगारं ग्रामनगरादि च । तत्रागारं त्रिविधम्-खातमुच्छृतं खातोच्कृतं च। तत्र खातं भूमिगृहादि, उच्छृतं भूम्युपर्युच्छ्रयेण कृतम् , उभयं तु भूमिगृहस्योपरि प्रासादः । तयोश्च क्षेत्रवास्तुनोः प्रमाणस्य योजनेन-क्षेत्रान्तरादि
कृतव्रतज्ञानाख्यं लक्षणम्
AKE&&&&&&&&
दिसेव्यम् , केतक्षात च। तत्र खातरादि
॥१२४॥
Jain Educator
For Private Personel Use Only
www.jainelibrary.org