SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भङ्गः, 'विवाह एवायं मया विधीयते, न परदारादिमैथुनम्' इति भावनया तु व्रतसापेक्षत्वादभङ्ग इत्यतिचारता । कामे-कामोदयजन्ये मैथुने अथवा "सूचनात् सूत्रम्" इति कामे-कामभोगेषु, तत्र समयपरिभाषया कामौ-शब्दरूपे भोगा:गन्धरसस्पर्शास्तेषु तीव्राभिलापः-अत्यन्तं तदध्यवसाय:, अयमपि पूर्वोक्तानामतिचारतया युज्यत एव । यद्यपि हि स्वदारादिषु तीयोऽपि कामाभिलाषस्तेषां साक्षादप्रत्याख्यातत्वान्मुत्कल एवेति कुतस्तत्करणेऽप्यतिचारसम्भवः१ तथाप्यसौ न विधेयः,यतो विदितजिनवचनः श्रावकः श्राविका वाऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते, अतीव्राभिलाषिणोऽपि च यापनायाः सम्भवात् तीव्राभिलाषोऽर्थतः प्रत्याख्यात एवेति तत्करणे व्रतसापेक्षत्वे च भङ्गाभङ्गरूपत्वादतिचारता ।। ननु योषितोऽनङ्गक्रीडादयस्त्रयोऽतिचारा भाविताः, पञ्चातिचारपक्षस्तु तस्याः कथं भाव्यते? उच्यते यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुजानाया आद्यातिचारोऽपि सम्भवति, द्वितीयस्त्वतिक्रमाद्य वस्थायां परपुरुषमभिसरन्त्याः । ___अतिक्रमव्यतिक्रमातिचारास्तु आधाकर्माश्रित्य शास्त्रान्तरे इत्थं भाषिताः, यथा-आधाकर्मनिमन्त्रणमभ्युपगच्छन् साधुरतिक्रमे वर्तते तावद् यावद् ग्रहणार्थ पदोत्क्षेपः, तत्प्रभृति पुनर्व्यतिक्रमस्तावद् यावदाधाकर्मग्रहणम्, तत्प्रभृति पुनरतिचारस्तावद् यावत् तस्यपरिभोगः, तस्मिंस्तु कृतेऽनाचारः, एषणाभङ्गः इत्यर्थः । उक्तं च Jain Education iral For Private & Personel Use Only Mainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy