________________
गीधर्मरत्नप्रकरणम् १२३ ॥
कृतव्रतज्ञानाख्यं लक्षणम्
SEARCREEEEEEE
इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामे तीव्राभिलाषश्चेति ।
अमीषां चायं विषयविभाग:परदारवज्जिणो पंच होति तिण्णि उ सदारसंतुठे । इत्थीए तिण्णि पंच उ, भंगविगप्पेहि नायव्वा ॥ तत्रापि इत्वरं-स्वल्पकालं परिगृहीता-स्वीकृता या केनचित् काचिद् वेश्या तस्यां गमनं परदारवर्जकस्यातिचारः, तस्यास्तावन्तं कालमर्थप्रदानतः परेण परिगृहीतत्वेन परदारत्वात्, 'वेश्यामेवैतां याम्यहं न परकलत्रम्' इति स्वकल्पनामावतस्तु वेश्यारूपत्वादि|ति भावः । अपरिगृहीता-अनाथकुलाङ्गना तस्यामपि गमनं तस्यातिचारः, लोके तस्याः परदारत्वेन रूढत्वात्, कामुककल्पनया तु भादेरभावतोऽपरदारत्वादिति भावः।
एतौ च द्वावपि स्वदारसन्तोषिणोऽतिचारतया न सम्भवतः, स्वदारव्यतिरेकिण्याः सर्वस्या अपि स्त्रियास्तेन प्रत्याख्यातत्वात् , तद्गमने व्रतभङ्गस्यैव प्राप्तेरिति भावः।
अनङ्ग:-कामः तत्प्रधाना क्रीडा-अधरदशनालिङ्गनकुचमर्दनिका। 'निधुवनमेव व्रतविषयः, नैषा' इति भावनया परदारेश्वेतां कुर्वतः परदारवर्जकस्यातिचारः । एवं स्वदारसन्तोषिणोऽपि परदारादिष्वेतां कुर्वतोऽतिचारता वाच्या।
योषितस्त्वनयैव भावनया पुरुषे आलिङ्गनादि कुर्वत्या अतिचारता वाच्या । परेषां-स्वकीयापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना विवाहस्य विधानं परविवाहकरणम् । इदं च परदारवर्जकस्वदारसंतुष्टयोर्योषितश्च त्रयाणामप्यतिचारतया सम्भवति, यदा हि 'परदारादिषु मैथुनं न कुर्वे, न कारयामि' इत्यभिग्रहः स्यात्तदा परविवाहकरणेऽर्थतो मैथुनस्य तेषु करणमनुष्ठितं भवत्यतो
॥१२३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org