SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ "सामीजीवादिन, तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जा विरई, अदिन्नदाणस्स सा विरई ॥" इत्यदत्तादानलक्षणयोगाद् विरुद्धराज्यातिक्रमकारिणां चौर्यदण्डयोग्यतावाप्तेश्चादत्तादानरूपत्वाद् भङ्ग एव तथापि 'वाणिज्यमेवेदं मया कृतं न चौर्यम्' इति भावनया व्रतनिरपेक्षत्वाभावाल्लोके चौरोऽयमिति व्यपदेशाभावाच्च अतिचारता।। कूटतुलाकूटमानयोर्व्यवस्थापेक्षया न्यूनाधिकयोः करणं कूटतुलाकूटमानकरणम् । तेन प्रस्तुतेन कुङ्कुमादिना प्रतिरूपं-सदृशं कुसुम्भादि प्रक्षिप्यते यत्र व्यवहारे स तत्मतिरूपो व्यवहारः, अथवा तत्प्रतिरूपेण-सहजकर्पूरादिसदृशेन कृत्रिमकर्पूरादिना यो व्यवहारः स तत्प्रतिरूपव्यवहारः। एतौ च कूटतुलाकूटमानतत्प्रतिरूपव्यवहारौ यद्यपि वञ्चनापरिणामेन परधनग्रहणरूपतया व्रतभङ्गरूपौ, तथापि 'क्षत्रखननादिकमेव चौर्यम् , इदं तु वणिकलोपजीवनमेव' इति स्वकीयकल्पनामात्रमपेक्ष्यातिचारतयोक्ताविति । उक्तं सातिचारं तृतीयाणुव्रतम् ।। अथ परदारविरमणं खदारसन्तोषलक्षणं चतुर्थमणुव्रतमुच्यते-तत्र परे-आत्मीयव्यतिरिक्ताः पुरुषाः तथा मनुष्यजात्यपेक्षया देवास्तियश्चश्च तेषां दाराः-परिणीतसंगृहीतभेदानि नारीरूपाणि कलत्राणि देव्यस्तिरभ्यश्चेति परदाराः तेषां विरमणं वर्जनम् । यद्यप्यपरिगृहीता देव्यस्तिरभ्यश्च काश्चित् संगृहीतुः परिणेतुः कस्यचिदभावाद्वेश्याकल्पा एव भवन्ति तथापि परजातीयभोग्यत्वात् परदारा एवेति वर्जनीयाः । तथा खदारैः सन्तोषः-यथा परकलत्रं तथा वेश्यामपि वर्जयित्वा स्वदौरैरेव कश्चित् सन्तुष्यतीत्यर्थः । उपलक्षणत्वाद् योषितां स्वभर्तृव्यतिरिक्तस्य सामान्यतः पुरुषमात्रस्य वर्जनमित्यपि द्रष्टव्यम् । अत्रापि पञ्चातिचारा वर्जनीयाः, तद्यथा & && &&&& JainEducation TYMYH For Private Personal Use Only ainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy