________________
श्रीधर्मरत्नप्रकरणम्
कृतव्रतज्ञानाख्य लक्षणम्
॥१२२॥
उक्तं सातिचार द्वितीयमणुव्रतम् । अथ स्थूलादत्तादानविरमणलक्षणं तृतीयमुच्यते-तत्र चौर्यारोपणहेतुतया प्रसिद्ध स्थूलं इन्धननीरणधान्यादि, न तु कर्णशोधनशलाकादि, तच्च तददत्तं च तस्यादानं-ग्रहणं तस्य विरमणं स्थूलादत्तादानविरमणम् । इदं च सचेतनाचेतनमिश्रवस्तुविषयत्वात् त्रिधा । अत्रापि पश्चातिचारा वर्जनीयाः, तद्यथा-स्तेनाहृतं तस्करप्रयोगो विरुद्धराज्यगमनं, कूटतुलाकूटमानकरणं तत्प्रतिरूपव्यवहारश्चेति । तत्र स्तेनैः-चौरैराहृतं-आनीतं कुङ्कुमादि स्तेनाहृतम् , इदं लोभदोषात् काणक्रयेण गृहंश्चौरो व्यपदिश्यते ।
यदाहचौरश्चौरापको मन्त्री, भेदज्ञः, काणकक्रयी। अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः॥ तदित्थं चौर्यकरणाद् व्रतभङ्गः 'वाणिज्यमेव मया विधीयते न चौर्यम्' इत्यध्यवसायतो व्रतनिरपेक्षत्वाभावादभङ्ग इत्युभयरूपत्वादतिचारता।
तस्कराः-चौरा एव तेषां प्रयोजनं प्रयोगः-'किमिदानीं निर्व्यापारास्तिष्ठथ यूयम् यदि शम्बलादिकं नास्ति भवतां तदा तदहं प्रयच्छामि, युष्मदानीतमोषस्य यदि विक्रायको न कश्चिदस्ति तदाहं विक्रेष्ये, गच्छत चौर्यार्थ यूयम्' -इत्यादिवचनैश्चौराणां स्तेयक्रियायां व्यापारणमित्यर्थः । अत्रापि भङ्गसापेक्षनिरपेक्षताभ्यामतिचारता भावनीयेति ।
विरुद्धः-निजदेशस्वामिनःप्रतिपन्थी तस्य राज्यं-कटकं देशो वा विरुद्धराज्यम् । तत्र निजस्वामिनो निषेधवचनमतिलय क्रमणं विरुद्धराज्यातिक्रमः । अयं च अद्यापि स्वस्वामिनोऽननुज्ञातस्य परकटकादिप्रवेशस्य
॥१२२॥
Jain Educati
For Private Personel Use Only
Alainelibrary.org