SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ SEXXXXXXXXXXXXXXXXXXXX रहसा-एकान्तेन हेतुभूतेनाभ्याख्यानम् , इदमुक्तं भवति-रहसि मन्त्रयमाणानभिवीक्ष्य वदति, यथा-एष मन्त्रो मया ज्ञातः, | इदं चेदं च राजविरुद्धादिकमिह मन्त्र्यत इति । अत्राह-नन्वभ्याख्यानमसदोषाभिधानरूपत्वान्मृषावाद एव, अतस्तदभिधाने व्रतभङ्ग एव, कुतोऽतिचारता? सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदाऽसंक्लेशभावेन व्रतनिरपेक्षत्वाभावान्न तद्भङ्गः, परोपघातहेतुरूपत्वात्तु भङ्गरूपतयाऽतिचारतेति, यदा तु तीवसंक्लेशयुक्तोऽभ्याख्याति तदा व्रतनिरपेक्षत्वाद् भङ्ग एव । आह चसहसभक्खाणाई, जाणंतो जइ करेज तो भंगो । जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो॥ स्वदाराणां मन्त्र:-विश्रम्भभाषितं तस्य भेदः-अन्यकथनम् , दारग्रहणं चेह मित्राद्युपलक्षणम् । अयं चानुवादरूपत्वेन सत्यत्वाद् यद्यप्यतिचारोन घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादिभावतः खदारादेर्मरणादिसम्भवेन परमार्थतस्तस्यासत्यता, "सच्चं पितं न सच्च, जं परपीडाकरं वयणं" इत्यादिवचनात् । अतः कथञ्चिद्भङ्गात्कथश्चनाभङ्गादतीचारतेति । मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदमेवं चैवं बृहीत्यादिकमसत्याभिधानशिक्षणमित्यर्थः । इह व्रतसंरक्षणे निर्गतापेक्षत्वादनाभोगादिना परेषां मुपोपदेशं यच्छतोऽप्यतिचारता । कूटलेख्यस्य-असद्भूतार्थसूचकाक्षरलेखनस्य करणम् , इहापि मृषाभणनमेवमया प्रत्याख्यातम् , इदं तु लेखनम् , इति भावनया मुग्धबुद्धेव्रतसव्यपेक्षस्यातिचारता भावनीया। अन्यथा वा अनाभोगादिकारणेभ्योऽसौ वाच्येति । EXREAKHEESEEBAB* Jain Education ! For Private & Personel Use Only Koxifinelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy