________________
श्रीधर्मरत्नप्रकरणम्
॥१२॥
XXXREAKERACREAK
ऽतिचारा एव, न पृथग्व्रतानि । बन्धादिग्रहणस्य चोपलक्षणत्वादपरेऽपि हिंस्रमन्त्रतन्त्रादयोऽतिचारतयाऽत्र द्रष्टव्याः।
उक्तं सातिचारं प्रथममणुव्रतम् । अथ स्थूलमृषावादविरमणलक्षणं द्वितीयं तदुच्यते-तत्र स्थलः-परिस्थूरद्विपदादिवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स चासौ मृषावादश्च-अनृताभिधानरूपः स्थूलमृषावादस्तस्य विरमणम् ,न तु सूक्ष्मस्य,तस्य महाव्रतविषयत्वात् । स च कन्यागोभूम्यलीकन्यासापहारकूटसाक्षित्वभेदात् किल पञ्चविधः । तत्र निदोषामपि कन्यां सदोषां व्यत्ययेन वा बदतः कन्यालीकम् । कन्यालीक चोपलक्षणमात्रं सर्वस्यापि द्विपदविषयालीकस्य । एवं गवालीकमपि भावनीयम, नवरमिदं चतुष्पदविषयस्य सर्वस्याप्यलीकस्योपलक्षणम् । परसकामप्यात्मादिसत्कां भुवं वदतो भूम्यलीकम् , इदं च सर्वस्याप्यपदविषयस्यालीकस्योपलक्षणम् । यद्येवं कन्यादिविशेषोपादानमुत्सृज्य सामान्येन द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् । तदतिरिक्तवस्त्वभावेन सर्वसङ्ग्रहसिद्धा, सत्यम् , किन्तु कन्याद्यलीकानों लोकेऽतिगर्हितत्वाद्विशेषेण तद्वजेनार्थं तदुपादानम् । अत एव द्विपदादिविषयालीकतोऽन्यालीकासम्भवेऽपि लोकेऽतिगर्हिततया रूढत्वान्न्यासापहार-कूटसाक्षिकत्वे कन्यालीकत्वादिभ्यः पृथगुपात्त। ननु तथापि न्यासापहारस्यादत्तादानविषयत्वादिहोपादानमसंगतम्, सत्यम्, किन्त्वपलापवचनस्य मृपावादविषयत्वाददोषः।
अत्रापि पञ्चातिचारा वर्जनीयाः, तद्यथासहसाभ्याख्यानं रहसाभ्याख्यानं खदारमन्त्रभेद: सपोपदेशः कूटलेख्यकरणं चेति। तत्र सहसा-अनालोच्य अभ्याख्यानम्असदोषाध्यारोपणम् , यथा--चौरस्त्वं पारदारिको वेत्यादि।
॥१२१॥
Jain Educalan
a
For Private & Personal Use Only
Painelibrary.org