________________
Jain Education
बन्धादयोऽपि प्रत्याख्यातास्तेन तर्हि तत्करणे व्रतभङ्ग एव विरतेः खण्डितत्वात् कुतोऽतीचारत्वम् ? किश्च बन्धादीनामपि प्रत्याख्येयत्वेऽङ्गीक्रियमाणे प्रस्तुतव्रतेयत्ता विशीर्येत बन्धादीनामपि पृथग्व्रतत्वादिति ।
अत्रोच्यते
मुख्यतया प्राणातिपात एव तेन प्रत्याख्यातो न बन्धादयः केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता एव द्रष्टव्याः, प्राणातिपातनिबन्धनभूतत्वात्तेषाम् । यदि तेऽपि प्रत्याख्यातास्तर्हि भवतु तत्करणे व्रतभङ्गो नातिचार इति चेत्, नैवम्, द्विविधं हि व्रतम्-अन्तर्वृत्या बहिर्वृत्या च । तत्र मारयामीतिविकल्पशून्योऽपि यदा कोपाद्या वेशात् परप्राणप्रहाण निरपेक्षो बन्धादौ प्रवर्त्तते, न च स्वायुर्वलीयस्त्वादिकारणात्तस्य बन्धादिविषयीकृतस्य जन्तोर्मृत्युः संपन्नस्तदा दयापरिणतिवर्जिततया विरत्यनपेक्षमवृच्या भग्नमन्तर्वृच्या व्रतम्, प्राणिघाताभावात्तु बहिर्वृत्त्या पालितम्, ततो देशस्य भञ्जनाद्देशस्य तु पालनादतिचारव्यपदेशः प्रवर्त्तते ।
उक्तं चन मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ! |
इत्याशङ्क्योत्तरमाह
निगद्यते यः कुपितो वधादीन, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥ १ ॥
मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद् दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अती चारमुदाहरन्ति ||२|| यच्चोक्तं व्रतेयत्ता विशीर्येत इत्यादि तदयुक्तम्, विशुद्ध हिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति । तस्माद् बन्धादयो
For Private & Personal Use Only
ainelibrary.org