Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 292
________________ SEXEEEEEEEEEEEEXXXXXBOO यत उक्तं परममुनिभिः"सावज्जजोगप्परिवज्जणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमं ति नचा, कुज्जा बुहो आयहियं परत्था । सामाइयम्मि उ कए, समणो इव सावओ हबइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥" अस्यापि पश्चातिचारा वर्जनीयाः। तत्र मनोवाकायदुष्प्रणिधानलक्षणास्त्रयः । मनःप्रभृतीनां च दुष्प्रणिधानम्-अनाभोगादिना सावधचित्तादिषु प्रवर्तनम् , तथा स्मृत्यकरणं सामायिकस्यानवस्थितस्य करणं च ।। तत्र स्मृतेरकरणं प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां सामायिक कर्त्तव्यं कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमिति। यस्तु करणानन्तरमेव त्यजति यथाकथश्चिद् वाऽनादृतः तत् करोति तस्यानवस्थितसामायिककरणमुच्यते । उक्तं च"सामइयं काऊणं, घरचितं कुणइ जंपइ जहिच्छं । अनियंतिओ य देहेण, निष्फलं तस्स सामइयं ॥” इत्यादि। अथ देशावकाशिकलक्षणं द्वितीय शिक्षाव्रतमुच्यते तत्र दिग्व्रते गृहीतस्य सविस्तरदिप्रमाणस्य देशे संक्षिप्तविभागे अवकाशः-अवस्थानं देशावकाशस्तेन निवृत्तं देशावकाशिकम् , बहुतरदिपरिमाणसङ्कोचरूपमिति भावः। अत्रापि पश्चातिचारा वर्जनीयाः, तद्यथा-आनयनप्रयोगः प्रेष्यप्रयोगः शब्दानुपातो रूपानुपातो बहिःपुद्गलप्रक्षेप इति । Jain Education ! XXXII For Private Personel Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340