Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 291
________________ श्रीधर्मरत्न - प्रकरणम् ॥१२८॥ उपभोगाङ्गानि तडागादिषु न नेतव्यानि, अन्यथा हि पिङ्गादयस्तानि भुञ्जते, ततश्वात्मनो निरर्थककर्मबन्धादिदोषः । अयमपि विषयात्मकत्वात् प्रमादाचरितस्यातिचारः । अपध्यानवते त्वनाभोगादिना प्रवृत्तिरतिचारः । आकुटया प्रवृत्तौ भङ्ग एव । एवं कन्दर्पादिष्वपि यथासम्भवमाकुट्या प्रवृत्तिर्भङ्गरूपैव वाच्येति । उक्तमनर्थदण्डविरमणव्रतम् । एतानि त्रीण्यपि दिखतादीनि गुणव्रतान्युच्यन्ते, अणुव्रतानां गुणाय - उपकाराय व्रतानि गुणव्रतानीति कृत्वा । भवति ह्यणुव्रतानां गुणवतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति । तदेवमभिहिता गुणव्रतलक्षणास्त्रय उत्तरगुणाः । अथोत्तरगुणचतुष्टयरूपाणि शिक्षाव्रतान्युच्यन्ते तत्र शिक्षा - अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवार्हाणीत्यर्थः । तानि च सामायिकादीनि चत्वारि । तत्र समस्य-रागद्वेषविरहितस्य जीवस्य आयः - लाभः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैरधः कृतचिन्तामणिकल्पद्रुमादिप्रभावैर्निरुपमसुखहेतुभिर्युज्यते । समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, सावद्यपरित्यागनिखद्यासेवनरूपो व्रतविशेष इत्यर्थः । इदं च सर्वारम्भप्रवृत्तेन गृहिणा गृहवासमहानीरधेर्निरन्तरोच्छ्रयितातुच्छप्रचुरव्यापारवीचीचयावर्त्तजनिताकुलत्वविच्छेदकं अतिप्रचण्डमोहनरपतिबलतिरस्करणमहायोधकल्पं प्रतिदिवसमन्तराऽन्तरा यत्नेन कर्त्तव्यम् । Jain Education International For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥१२८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340