Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 309
________________ श्रीधर्मरत्न प्रकरणम् आयतनसेवाख्यं शीलम् ॥१३५॥ 'खुः'अवधारणे प्रतिपक्षपतिषेधार्थः, ततश्चायतनमेव निषेवते भावश्रावकः, नानायतनमिति योगः। न भिल्लपल्लीसु न चौरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य निन्दिता ॥ तथादसणनिम्भेयणिया, चरित्तनिम्भयणीय अणवरयं । जत्थ पयट्टइ विगहा, तमणाययणं महापावं ॥ इति प्रथमं शीलम् । तथा वर्जयति 'परगृहप्रवेशनम्' अन्येषां मन्दिरेषु गमनम् 'अकायें गुरुतरकार्याभावे, नष्टविनष्टादावाशङ्कासम्भवादिति द्वि| तीयं शीलम् । तथा 'नित्यं सदा 'अनुद्भटवेषः' अनुल्वणनेपथ्यो भवति भावश्रावक इति तृतीयं शीलम् । 'न भणति' न ब्रूते सविकाराणि-रागद्वेषविकारोत्पत्तिहेतुभूतानि वचनानि-वाच इति चतुर्थ शीलम् । तथा 'परिहरति' नासेवते 'बालक्रीडां' बालिशजनविनोदव्यापारं द्यूतादिकमिति पञ्चमं शीलम् । तथा 'साधयति' निष्पादयति 'कार्याणि' प्रयोजनानि 'मधुरनीत्या' सामपूर्वकम् 'सोम! सुन्दर ! एवं कुरुष्व'इत्यादिनेति षष्ठं शीलम् । 'इति'पूर्वोक्तप्रकारेण षद्विधशीलयुतो विज्ञेयः शीलवान् अत्र' श्रावकविचार इति । सम्प्रत्येतदेव शीलपटक व्याख्यानयन् प्रथमं शीलं आयतनलक्षणं गाथापूर्वार्द्धन गुणोपदर्शनपूर्वकं भावयति __ आययणसेवणाओ, दोसा झिज्जंति वड्डइ गुणोहो। आयतनम्-उक्तस्वरूप तस्य सेवनात-उपासनात् 'दोषाः' मिथ्यात्वादयः क्षीयन्ते'हीयन्ते, क्षयं यान्तीति भावः, 'वर्द्धते' वृद्धिम तत्र सुदर्शनकथा। ॥१३५॥ Jain Education For Private Personel Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340