________________
श्रीधर्मरत्न प्रकरणम्
आयतनसेवाख्यं
शीलम्
॥१३५॥
'खुः'अवधारणे प्रतिपक्षपतिषेधार्थः, ततश्चायतनमेव निषेवते भावश्रावकः, नानायतनमिति योगः।
न भिल्लपल्लीसु न चौरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य निन्दिता ॥
तथादसणनिम्भेयणिया, चरित्तनिम्भयणीय अणवरयं । जत्थ पयट्टइ विगहा, तमणाययणं महापावं ॥
इति प्रथमं शीलम् । तथा वर्जयति 'परगृहप्रवेशनम्' अन्येषां मन्दिरेषु गमनम् 'अकायें गुरुतरकार्याभावे, नष्टविनष्टादावाशङ्कासम्भवादिति द्वि| तीयं शीलम् । तथा 'नित्यं सदा 'अनुद्भटवेषः' अनुल्वणनेपथ्यो भवति भावश्रावक इति तृतीयं शीलम् । 'न भणति' न ब्रूते सविकाराणि-रागद्वेषविकारोत्पत्तिहेतुभूतानि वचनानि-वाच इति चतुर्थ शीलम् । तथा 'परिहरति' नासेवते 'बालक्रीडां' बालिशजनविनोदव्यापारं द्यूतादिकमिति पञ्चमं शीलम् । तथा 'साधयति' निष्पादयति 'कार्याणि' प्रयोजनानि 'मधुरनीत्या' सामपूर्वकम् 'सोम! सुन्दर ! एवं कुरुष्व'इत्यादिनेति षष्ठं शीलम् । 'इति'पूर्वोक्तप्रकारेण षद्विधशीलयुतो विज्ञेयः शीलवान् अत्र' श्रावकविचार इति । सम्प्रत्येतदेव शीलपटक व्याख्यानयन् प्रथमं शीलं आयतनलक्षणं गाथापूर्वार्द्धन गुणोपदर्शनपूर्वकं भावयति
__ आययणसेवणाओ, दोसा झिज्जंति वड्डइ गुणोहो। आयतनम्-उक्तस्वरूप तस्य सेवनात-उपासनात् 'दोषाः' मिथ्यात्वादयः क्षीयन्ते'हीयन्ते, क्षयं यान्तीति भावः, 'वर्द्धते' वृद्धिम
तत्र सुदर्शनकथा।
॥१३५॥
Jain Education
For Private Personel Use Only
A
jainelibrary.org