Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 290
________________ इत्यादिनिष्प्रयोजनासमञ्जसचिन्तारूपम् । प्रमादः-मद्यविषयकषायनिद्राविकथालक्षणः,तेन तस्य वा आचरितम्-अनुष्ठानं प्रमादाचरितम्,अथवा आलस्योपहतचेष्टितं प्रमादाचरितमुच्यते । तच्च बहुजीवोपघातहेतुभूतं अस्थगितघृततैलभाजनधारणादि। हिंसनशील हिंस्र शस्त्रानलहलोदूखलविषादि, तस्य प्रदानं-अन्यस्मै समर्पणं हिंस्रप्रदानम् । पापहेतुत्वात् पापं कर्म-कृष्यादिक्रियारूपं तस्योपदेशः पापकर्मोपदेश इति चतुर्विधोऽनर्थदण्डः तस्माद्विरमणमनर्थदण्डविरमणम् । अत्रापि पञ्चातिचारा वर्जनीयाः। तद्यथाकन्दर्पः कौत्कुच्यं मौखयं संयुक्ताधिकरणता उपभोगपरिभोगातिरेक इति । तत्र कन्दर्पः-कामः, तदुद्दीपको हास्यप्रधानस्तथाविधवाझयोगोऽपि तद्धेतुत्वात् कन्दर्पः। परेषां हास्यजनकं बहुविधनेत्रसको चादिविक्रियागर्भ भाण्डानामिव चेष्टितं कौत्कुच्यम् । एतौ च द्वावप्यतिचारौ प्रमादाचरितस्य द्रष्टव्यौ, तद्रूपत्वादिति । मुखमस्यास्तीति मुखरो-वाचालः, तस्य कर्म मौखर्य-धाष्टर्थमायमसत्यासम्बद्धप्रलापित्वम् । अयं च पापकर्मोपदेशस्यातिचारः, मौखये सति पापकर्मोपदेशसम्भवात् । अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-तूणीरधनुर्मुशलोदूखलारघट्टादि । संयुक्तम्-अर्थक्रियाकरणयोग्यं प्रगुणीकृतं तच्च तदधिकरणं संयुक्ताधिकरणं न धरणीयम् , प्रगुणं हि तद् दृष्ट्वाऽन्योऽपि याचत इति भावः । अयं हिंस्रप्रदानस्यातिचारः। __उपभोगपरिभोगयोरतिरेकः-आधिक्यमुपभोगपरिभोगातिरेकः। इह किल स्वोपयोगिभ्योऽधिकानि ताम्बूलमोदकमण्डकादीनि JainEducation For Private Personal Use Only

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340