________________
विधि
प्रकरणम्
॥३६॥
देसकुलजाइरुवी, संघयणी धीजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥ २३ ॥ जियपरिसो जियनिहो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥ २४ ॥ पंचविहे आयारे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहारणहेउकारण-नयनिउणो
गाहणाकुसलो ॥ २५॥ ससमयपरसमयविऊ, गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ | जुत्तो, पवयणसारं परिकहेउं ॥ २६ ॥ ____ गूढार्थत्वादासां व्याख्या-देशकुलजातिरूप्याप्यतिशायीनि विद्यन्ते यस्य स तथा, तत्र देशो-मध्यदेशो जन्मभुमिः १, कुलं-इक्ष्वा क्वादि २,जाति:-मातृसमुत्था ३,रूपं अङ्गोपाङ्गसम्पूर्णता ४,संहननी-विशिष्टसंहननः स हि वाचनादौ न श्राम्यति ५,धृतियुक्तः६, से अनाशंसी-श्रोतृभ्यो वस्त्राधनाकाङ्क्षी ७ अविकस्थनो-ऽबहुभाषी अनात्मश्लाघापरो वा ८,अमायी-निःकपटः ९,स्थिरा-निश्चला परिपाटि:-सूत्रार्थवाच ना यस्य स तथा १०,गृहीतं वाक्यं येन स तथाऽवधारणावान् ११,जितपरिषत् १२, जितनिद्रः १३,मध्य| स्थः शिष्येषु समचित्तः १४,देश:-साधुभाषितादिः १५,काल:-सुभिक्षादिः १६, भाव:-क्षायोपशमादिः तान् जानातीति तत्ज्ञः स हि यथोचित्येन विहरति धर्मदेशनां च कुरुते १७, आसन्ना-प्रश्नानन्तरमेव लब्धा प्रतिभा येन स तथा १८, नानाविधदेशभाषाज्ञः १९, पञ्चविधे आचारे-ज्ञानाचारादौ युक्तः २४, सूत्रार्थतदुभयविधिज्ञः १५, उदाहरणं-दृष्टान्तः २६, हेतुः-अन्वयव्यतिरेकवान् २७, कारणं-दृष्टान्तादिरहितमुपपत्तिमात्र २८, नया:-नैगम १ सङ्गह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५
G॥३६॥
CARROSSE