Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
इति विवृतं धर्मविधेः, श्रीश्रीप्रभसूरिभिः कृतं सूत्रम् । अथ चास्य वृत्तिकारः, स्वगुरुक्रममाह सक्षेपात् ॥१॥
॥अथ प्रशस्तिः ॥ श्रीचन्द्रगच्छकमला--कण्ठालंकारतारहारनिभः । श्रीसर्वदेवमूरि--भूरिगुणोऽभूद् भुवि ख्यातः॥१॥ तत्पनभसि युगप--लब्धोदयतः परोपकृतिकुशलौ । नव्यौ रविचन्द्राविव, विदितो शिष्यावजनिषाताम् ॥ २॥ तत्रैकोऽभिनवरविः, श्रीश्रीप्रभसरिरहतगुरुतेजाः । कुवलयविबोधहेतुः, सदाऽप्यनस्त मितमहिमा च ॥ ३ ॥ विमलः सदा सुवृत्तो, 'योतितपक्षद्वयस्त्यक्तदोषः। श्रीसोमप्रभसूरि-नवीनसोमप्रभश्चान्यः ॥ ४॥ तत्र श्रीप्रभसूरिः, श्रुतोदधेरमृतमिव समुद्धृत्य । श्रीधर्मविधेः सूत्रं, सवृत्तिकं त्रयामास ॥५॥ तदनु स्फुटार्थवत्यपि, सुरक्षिताऽप्यस्य भृधनस्येव । वृत्तिर्जगाम शिखि ३ शर ५.-भास्कर १२ मितवर्षजे भने॥६॥ अथ तस्य श्रीप्रभमरेः, शिष्याश्चतुर्दिश विदिताः । समधिगतचतुर्विद्या, अमी बभूवुश्चतुःसङ्ख्याः ॥७॥ श्रीभुवनरत्नसूरिः, श्रीनेमिप्रभमुनीश्वरस्तदनु । श्रीमन्माणिक्यप्रभ-मूरिमहीचन्द्रसूयौँ (री) च ॥ ८॥ दीक्षागुरुरायतमो, यस्याभृन्मातुलो द्वितीयम्तु । शिक्षागुरुस्तृतीयः, पदप्रतिष्ठागुरुस्तुर्यः ॥ ९॥ स श्रीमाणिक्यप्रभ-गुरुसेवी स्वगुरुबन्धुसांमत्यात् । आचार्य उदयसिंह-चक्रे श्रीधम्मविधिवृत्तिम् ॥ १० ॥ १. धोतितपक्षवयोऽकलितदोषः इति तु पाठश्छन्दोऽषितः ॥ .

Page Navigation
1 ... 315 316 317 318 319 320