Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 117
________________ ××××××**********************************XXXXXXXX - ધર્મપરીક્ષા (બાકી તો સમ્યક્ત્વીઓ પણ દેશવિરતિધરો વિગેરેની અપેક્ષાએ સર્વજ્ઞથી દૂર હોવાથી તેઓમાં પણ સર્વજ્ઞસેવકત્વ ન સંભવે. જો તેઓમાં મિથ્યાત્વીઓની અપેક્ષાએ સમીપવર્તિત્વ હોવાને લીધે સર્વજ્ઞસેવકત્વ માનવાનો દાવો કરશો, તો મધ્યસ્થ મિથ્યાત્વીઓ પણ કદાગ્રહી મિથ્યાત્વીઓની અપેક્ષાએ તો સર્વજ્ઞની નજીક હોવાથી તેઓ પણ સર્વજ્ઞના સેવક માની જ શકાય છે.) यशो० : तदुक्तं योगदृष्टिसमुच्चये (श्लो० १०२ - १०९) न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ।। सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ।। प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ।। विशेषस्तु पुनस्तस्य कार्त्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ।। तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम्।। यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते । सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।। इति । चन्द्र० : उक्तार्थप्रतिपादिकं शास्त्रपाठं दर्शयति - तत् = अनन्तरमेवोदितं उक्तं कथितम् । योगदृष्टिसमुच्चयगाथासंक्षेपार्थस्त्वयम् - (१) यतो बहवः सर्वज्ञास्तत्त्वतो भिन्नमताः न, ततः तदधिमुक्तीनां = तत्सेवकानां तद्भेदाश्रयणं = सर्वज्ञभेदस्वीकार: "मम सर्वज्ञः शङ्करः, तव तु अन्य:, अस्माकं सर्वज्ञाः परस्परं भिन्नाः, भिन्नमताश्च" इत्यादिरूपः मोहः = अज्ञानमेव | (२) यः कश्चित्पारमार्थिक एव हि सर्वज्ञः, स व्यक्तिभेदेऽपि सर्वत्र = सर्वेषु दर्शनेषु तत्त्वत एक एव, अपारमार्थिकसर्वज्ञानां तु बहुत्वं सम्भवत्येवेति पारमार्थिक- पदमत्रोपात्तम् । મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૮૮ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186