Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 180
________________ XXXXXXXXXXXXXXXXXXXXXX ધર્મપરીક્ષા જે જીવ વ્યુત્પન્ન = અનાભોગમિથ્યાત્વરહિત અને અનભિનિવિષ્ટ = આભિગ઼હિકમિથ્યાત્વ રહિત હોય. તે જીવ અહીં લેવો. ટુંકમાં જે જીવમાં અનાભોગ કે આભિગ્રહિક બેમાંથી એક પણ મિથ્યાત્વ નથી તે જીવો પ્રત્યે પરકીયસંમતિ સ્વમાર્ગદઢતાનું કારણ ન બને. પરંતુ જે જીવોમાં અનાભોગ કે આભિગ્રહિક બેમાંથી એક પણ મિથ્યાત્વ હોય તો એના પ્રત્યે પરકીયસંમતિ સ્વમાર્ગદઢતાનું કારણ બને.) चन्द्र० : इदन्तु रहस्यं मनसि दृढमवधार्यं यदुत अनुकम्पाजीवदयादिरूपा या उभयाभिमता क्रिया, व्युत्पन्नस्तां क्रियां स्वदर्शने स्थित्वा स्वदर्शनीयां मत्वा कुर्वाणोऽपि मार्गानुसारितां प्राप्नोति, जैनदर्शने च स्थित्वा जैनदर्शनीयां मत्वा तां क्रियां कुर्वाणस्तु सुतरां मार्गानुसारितां प्राप्नोति । अजैनदर्शने प्रतिपादिता अशुद्धस्वरूपा यागीयहिंसादिरूपा क्रिया तु व्युत्पन्नानामपि मार्गानुसारितां न जनयतीति तादृशक्रियाव्यवच्छेदार्थमेव उभयाभिमता क्रिया व्युत्पन्नमार्गानुसारितां प्रति कारणं निगदिता । ततश्च यागीयहिंसादिरूपायाः क्रियाया जैनानभिमतत्वात् तस्याः कारणत्वमेव अनभिमतमिति । यदि तु व्युत्पन्नानां अजैनक्रिया जैनक्रिया वा काऽपि क्रिया मार्गानुसारिताकारणं मन्येत्, तर्हि यागीयहिंसादिक्रियाया अपि तान् प्रति मार्गानुसारिताकारणत्वं स्यादिति । अव्युत्पन्नाणां मार्गानुसारितां प्रति तु या जैनक्रिया कारणं प्रतिपादिता, सा तु जिनपूजादिरूपा जैनदर्शनमात्राभिमताऽपि स्याद् अनुकम्पादिरूपा च उभयाभिमताऽपि स्यात् । यदा तु अव्युत्पन्ना जैनदर्शनाभिमतामपि अनुकम्पादिरूपां उभयाभिमतां क्रियां स्वदर्शनीयां मत्वा कुर्वन्ति, तदा सा क्रिया जैनाभिमताऽपि सती " जैनक्रिया इयं" इति ज्ञानेन न क्रियते, किन्तु " अस्मद्दर्शनाभिमता इयं" इति ज्ञानेन क्रियते । ततश्च सा क्रिया अव्युत्पन्नानां स्वदर्शने कदाग्रहं जनयतीति जैनाभिमताऽपि क्रिया स्वदर्शनीयत्वेन ज्ञात्वा अव्युत्पन्नेनाजैनेन क्रियमाणा न मार्गानुसारिताकारणम् । किन्तु अव्युत्पन्नोऽजैनो जैनदर्शने स्थित्वा उभयाभिमतां क्रियां जैनदर्शनीयां मत्वा तां करोति, तदा तु सा क्रिया तस्य मार्गानुसारितां जनयतीति । अव्युत्पन्नो हि जैनमात्राभिमतां जिनपूजादिक्रियां जैनदर्शनीयामेव मत्वा करोति, यतः सा अन्यदर्शनानां अनभिमतैवेति । सा क्रिया तु तस्य मार्गानुसारितां जनयत्येवेति । "इयं जैनक्रिया" इति ज्ञानपूर्वकं अव्युत्पन्नेन क्रियमाणा उभयाभिमता जैनदर्शनमात्राभिमता वा क्रिया तस्य मार्गानुसारितायाः कारणमिति सारः । મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૧૫૧ XXXXX**********XXXX

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186