________________
××××××**********************************XXXXXXXX
- ધર્મપરીક્ષા
(બાકી તો સમ્યક્ત્વીઓ પણ દેશવિરતિધરો વિગેરેની અપેક્ષાએ સર્વજ્ઞથી દૂર હોવાથી તેઓમાં પણ સર્વજ્ઞસેવકત્વ ન સંભવે. જો તેઓમાં મિથ્યાત્વીઓની અપેક્ષાએ સમીપવર્તિત્વ હોવાને લીધે સર્વજ્ઞસેવકત્વ માનવાનો દાવો કરશો, તો મધ્યસ્થ મિથ્યાત્વીઓ પણ કદાગ્રહી મિથ્યાત્વીઓની અપેક્ષાએ તો સર્વજ્ઞની નજીક હોવાથી તેઓ પણ સર્વજ્ઞના સેવક માની જ શકાય છે.)
यशो० : तदुक्तं योगदृष्टिसमुच्चये (श्लो० १०२ - १०९)
न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ।।
सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ।। प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ।। विशेषस्तु पुनस्तस्य कार्त्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ।। तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम्।। यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते । सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।।
इति ।
चन्द्र० : उक्तार्थप्रतिपादिकं शास्त्रपाठं दर्शयति - तत् = अनन्तरमेवोदितं उक्तं कथितम् । योगदृष्टिसमुच्चयगाथासंक्षेपार्थस्त्वयम् -
(१) यतो बहवः सर्वज्ञास्तत्त्वतो भिन्नमताः न, ततः तदधिमुक्तीनां = तत्सेवकानां तद्भेदाश्रयणं = सर्वज्ञभेदस्वीकार: "मम सर्वज्ञः शङ्करः, तव तु अन्य:, अस्माकं सर्वज्ञाः परस्परं भिन्नाः, भिन्नमताश्च" इत्यादिरूपः मोहः = अज्ञानमेव |
(२) यः कश्चित्पारमार्थिक एव हि सर्वज्ञः, स व्यक्तिभेदेऽपि सर्वत्र = सर्वेषु दर्शनेषु तत्त्वत एक एव, अपारमार्थिकसर्वज्ञानां तु बहुत्वं सम्भवत्येवेति पारमार्थिक- पदमत्रोपात्तम् ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૮૮
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX