Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 148
________________ ************************** ધર્મપરીક્ષા नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथाऽपि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ? जैनमार्गक्रिययैवाव्युत्पन्नदशायामपुनर्बन्धकत्वसिद्धेः, बीजाधानस्यैव तल्लिङ्गत्वात्, तस्य च सर्वज्ञवचनानुसारिजिन★ मुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यत्वाद् । ************** यशो० : चन्द्र० : पूर्वपक्षो वस्तुव्यवहारतो जैनधर्मे स्थितानामेवापुनर्बन्धकादीनां प्रधानद्रव्याज्ञां मन्यमानो व्यवहारतो जैनधर्माद् बहिः स्थितानां बौद्धादीनां च प्रधानद्रव्याज्ञामस्वीकुर्वन् महोपाध्यायं खण्डयितुं प्रयतते - ननु एवं उपदेशपदपाठानुसारेण अपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता इति अस्माकमभिमतम् । तथाऽपि = अपुनर्बन्धकस्य प्रधानद्रव्याज्ञासिद्धावपि भिन्नमार्गस्थानां साङ्ख्यबौद्धादीनां मध्यस्थानामपि = आस्तां तावत्कदाग्रहिणां इत्यपिशब्दार्थः, मिथ्यादृशां कथं एषा = प्रधानद्रव्याज्ञा सम्भवति ? | = = ननु किमर्थं न सा सम्भवेत्तेषाम् ? किमत्र बाधकम् ? इत्यतः पूर्वपक्षो बाधकमाहजैनमार्गक्रिययैव जिनेश्वरपूजासामायिकप्रतिक्रमणस्नात्रमहोत्सवादिरूपयैव, न तु शङ्करपूजादिभिरित्येवकारार्थः । अव्युत्पन्नदशायां स्याद्वादपरिज्ञानाभावदशायां, मिथ्यात्वगुणस्थानक इति भावार्थ:, अपुनर्बन्धकत्वसिद्धेः । तथा च यतो मिथ्यात्वदशायां जैनक्रिययैवापुनर्बन्धकत्वं ज्ञायते, ततो न साङ्ख्यबौद्धादीनां जैनक्रियाभावाद् अपुनर्बन्धकत्वं, ततश्च न तेषां प्रधानद्रव्याज्ञेति । इत्थञ्च जैनक्रियावन्त एवापुनर्बन्धकाः सम्भवन्ति, न त्वन्य इति पूर्वपक्षस्योत्सूत्राभिप्रायः । ननु “मिथ्यात्वदशायां जैनमार्गक्रिययैवापुनर्बन्धकत्वं स्यात् " इति भवता पूर्वपक्षेण कुतो निर्णीतम् ? इत्याशङ्कायां पूर्वपक्ष: प्राह - बीजधानस्यैव सम्यग्दर्शनादेर्बीजं गुणानुरागः, तदाधानस्यैव, न त्वन्यस्येत्येवकारार्थः, तल्लिङ्गत्वात् = अपुनर्बन्धकत्वलिङ्गत्वात् । तथा च यतो बीजाधानमेवापुनर्बन्धकत्वज्ञापको हेतु:, ततो जैनमार्गक्रिययैव अपुनर्बन्धकत्वसिद्धिरिति सिद्धम् । = = ननु हे पूर्वपक्ष ! भवतु नाम बीजाधानस्य अपुनर्बन्धकत्वलिङ्गत्वम् । परन्तु एतावन्मात्रेण एतत्कथं सिद्धेत्, यदुत् "जैनमार्गक्रिययैवापुनर्बन्धकत्वं भवेत्, नान्यथा" ? इति । पूर्वपक्ष: प्राह - तस्य च = बीजाधानस्य च सर्वज्ञवचनानुसारीत्यादि, सर्वज्ञवचनानुसारि यज्जिनमुनिप्रभृतिषु पदार्थेषु कुशलचित्तादि, तल्लक्ष्यत्वात् । अत्रादिपदात् कुशलवाक्काययोः મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૧૧૯

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186