Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 172
________________ 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 * धर्मपरीक्षाDa n coasooooooooooooooooooooooooooratantansex ऽभिधानात्, व्युत्पन्नस्य मार्गानुसारिताय तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वात्, अव्युत्पन्नस्य में * तस्यां गुरुपारतन्त्र्याधानद्वारा स्वसमयाभिमतक्रियाया हेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच्च । * चन्द्र० : तदसत् = पूर्वपक्षमतं मिथ्या । तत्र कारणमाह- उभयाभिमता करणनियमादिनैव = जैनसाङ्ख्योभयस्याभिमतो योऽकरणनियमादिः, तेनैव, “न तु * परसमयानभिमस्वसमयाभिमतक्रियया" इति एवकारार्थः, पतञ्जल्यादीनां = आदिपदाद् भदन्तभास्करादिपरिग्रहः, मार्गानुसारिताऽभिधानात् । योगबिन्दुपाठः प्राक्प्रदर्शित एव । * में एवं शास्त्रपाठेन पूर्वपक्षं निराकृत्याधुना युक्त्या पूर्वपक्षं निराकरोति - व्युत्पन्नस्य = * "यत्शोभनं तद्ग्राह्यं, इतरस्तु त्याज्यम्" इत्यादिमध्यस्थभावपरिकलितस्य मार्गानुसारितायां * तत्त्वजिज्ञासामूलविचारस्यैव = तत्त्वजिज्ञासा एव मूलं यस्य, तादृशो यो विचारः = * * चिन्तनं, तस्यैव न तु स्वसमयमात्राभिमता क्रिया इत्येवकारार्थः, हेतुत्वात् । अव्युत्पन्नस्य = * अनाभोगमिथ्यात्विन आभिग्रहिकमिथ्यात्विनश्च तस्यां = मार्गानुसारितायां गुरुपारतन्त्र्याधानद्वारा * स्वसमयाभिमतक्रियायाः = जैनशास्त्राभिमतक्रियायाः हेतुत्वे = कारणत्वे सति परसमयानभिमतत्वप्रवेशे = परसमयानभिमतत्त्वधर्मस्य विशेषणान्तरस्य निवेशे प्रमाणाभावाच्च । - इदमत्र हृदयम् - यथा हि धूमं प्रति वह्निः कारणं, तथा मार्गानुसारितां प्रति किं कारणम् ? * - इति वक्तव्यम् । तत्र पूर्वपक्षाभिप्रायोऽयं "मार्गानुसारितां प्रति परसमयानभिमत स्वसमयाभिमतक्रिया कारणम्" इति । है उपाध्यायास्तु प्राहुः - ननु हे पूर्वपक्ष ! येषु मिथ्यात्विषु जीवेषु मार्गानुसारिता उत्पद्यते, र * ते द्विविधा भवन्ति, व्युत्पन्ना अव्युत्पन्नाश्च । तत्र ये मध्यस्था मिथ्यात्विनस्ते व्युत्पन्नाः, ये च * अनाभोगवन्त आभिग्रहिकाश्च, ते अव्युत्पन्नाः । अत्र ये व्युत्पन्नाः, तेषां मार्गानुसारितां प्रति तत्त्वजिज्ञासामूलविचार एव कारणम् । ततस्तत्र परसमयानभिमतस्वसमयाभिमतक्रियायाः कारणत्वं न भवति । ये चाव्युत्पन्नाः, तेषां मार्गानुसारितां प्रति स्वसमयाभिमतक्रिया कारणम् । सा च क्रिया में * परसमयाभिमता भवतु परसमयानभिमता वा भवतु, न तेन किञ्चित्प्रयोजनम् । यतः ॐ परसमयाभिमता या स्वसमयाभिमता अनुकंपाकरणादिरूपा क्रिया, साऽपि मेघकुमारजीवहस्त्यादीनां मार्गानुसारितायाः हेतुरभवत् । परसमयानभिमता या स्वसमयाभिमता । 双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双瑟瑟瑟双双双双双双双双双双双双双双双双 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૩ માં

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186