Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
बावश्यक नियुक्तिदीपिका
तृतीयो विभागः।
एगविहं दुविहेणं इक्विकविहेण छ?ओ होइ।
उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ १५६१ ॥ कचनाभिग्रहं लाति, सह्येव लाति, द्विविधं त्रिविधेनेति प्रथमो भेदः १। कोऽर्थः ? द्विविधं इति योगविशेषणं त्रिविधेनेति | करणविशेषणम् । तत्र योगाः करणकारणानुमतिरूपा व्यापाराः, करणानि योगसाधकानि मनोवाकायरूपाणि, ततोऽयं अर्थः। प्राणा जीवास्तेषां अतिपातं विनाश, द्विविधं करणकारणरूपं, त्रिविधेन मनसा वाचा कायेन प्रत्याख्यामि इति । एवं द्विविधं द्विविधेनेति, कोऽर्थः १ द्विविधं कृतकारितादिरूपं द्विविधेन मनोवाग्-मनाकाय-वाकायरूपेण प्रत्याख्यामि २। द्विविधं योग एकविधेन मनसा वाचा कायेन वा करणेनेति तृतीयः ३ । एकविधं योगं कृतं कारितं वा त्रिविधेन करणेनेति तुर्यः
। एकविधं योग द्विविधन करणेनेति पञ्चमः ५। एकविधं योग एकविधेन करणेनेति षष्ठः ६ श्रावकभेदः, श्राद्धस्यानुमतिनिषेधामावात्रिविधं योगमिति मङ्गो नोक्तः, यदा मनसा वाचा निषिद्धः तदा कायेन शून्यतया करोति, यदा तु वाचा कायेन निषिद्धः तदा मनसा हिंसकः, यदा मनोवाग्म्यां (मनाकायाम्यां) निषिद्धः तदा शून्यतया हिंसकवाग्भाषीत्यादिमडा जेया। अनुज्ञा तु विमिरप्यस्तीति सर्वत्र भाव्यम् । तथा कोऽपि उत्तरगुणानां मध्ये कमप्यभिग्रहं लाति, एष सप्तमो मङ्गः ७। कोऽपि नियमाग्रहणादविरतोऽष्टमो भेदः ८॥१५६०-६१ ॥
Jain Education Intem
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106