Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 89
________________ पंच चउरो अभिग्गहि निबीए अट्ट नव य आगारा। अप्पाउराण पंच उ हवन्ति सेसेसु चत्तारि ॥ १५९५ ॥ आकारः प्रत्याख्यानापवादहेतुः । द्वावेवाकारौ नमस्कारसहिते यथा 'मरे उग्गए नमोक्का० अन्नत्थणाभोगेणं सहसागारेणं २ इति । व्याख्या सूर्ये उद्गते सति नमस्कारसहितमिति नमस्कारभणनोपलक्षितकालसहितं प्रत्याख्यामि त्यजामि स्वीकुर्वे चतुर्विधमप्याहारं शेषं प्राग्वत् । इदं चतुर्विधाहारस्यैव । मुहूर्तात्परतो भोजनकाले वा नमस्कारोच्चारेण 'मत्थएण वंदामो खमासमणो णमोकारं पारेमि त्ति पार्यतेऽन्यथा सूर्यास्तमनेऽपि न इति वृद्धाः। पौरुषी द्विविधाद्याहाराऽपि स्यादिति वृद्धाः तस्यां पट । इह सूत्रं 'पोरिसिं पच्चक्खाइ उग्गए सूरे'क्यादि पोरिसिं पच्चक्खाइ उग्गए सूरे चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अण्णवणाभोगेणं सहसाकारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरामि (सूत्रम्) ।। दिनचतुर्भागमानकालेन पुरुषप्रमाणछायया निवृत्ताऽद्धा पौरुषी उच्यते, तां यावत् चतुर्विधाहारं प्रत्याख्यामि अन्यत्रा. भोगेन सहसाकारेणेति प्राग्वत् । तथा 'पच्छन्नेणं कालेणं' रजोवृष्यत्रादिना सूर्ये स्थगिते प्रच्छन्नेन कालेनेति तृतीया पञ्चम्यर्थे प्रच्छन्नकालादन्यत्रेत्यर्थः । प्रच्छन्नकाले सवेलमपि पारणे मा भङ्गः। अत्रापि भुञ्जानस्य पौरुष्यपूर्णताज्ञाने मुखस्थं श्लेष्ममात्रे करस्थं पात्रे मुक्त्वा मिथ्यादुष्कृतं दत्वा काले पूर्णे मनसा पारयित्वा भुते। दिग्मोहात पूर्वां प्रति पश्चिमाबुद्ध्या Jain Education Interna For Private & Personal use only W w w.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106