Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 92
________________ यावश्यकनिर्युक्ति दीपिका ॥ ३९ ॥ Jain Education Internatio सद्भावेन च । असिक्थेन वा सिक्थापनयनेन, वाशब्दाः समुच्चयार्थाः । अत्र प्रकरणगाथा 'लेवाडदक्खपाणाइ इयरसोवीरमच्छमुसिणजलं । बहलं धावणमायाम ससित्थं इयरसित्थविणा' ॥ १ ॥ इत्याकारार्थः । एवंविधेन पानकेन विनाऽन्यं त्रिविधमाहारं व्युत्सृजामि रात्रौ पानकाहारप्रत्याख्यानं न स्यात् सर्वजिनैर्निशाभोज्यस्य निषिद्धत्वात्, रात्रिभोजने च मूलव्रतविराधनाभावात् । श्राद्धानामपि यद्रात्रौ जलपानं तदप्युत्सर्गतोऽकल्प्यं तेन निर्विकृत्यादिषु तपोविशेषेषु निशासु जलं न पिबन्ति । पानकाकारेषु वशनादिलेपोऽस्ति अशनखादिमे च श्राद्वै रात्रिभोज्यनिषेधे निषिद्धे । तदा तु पानकाकारा नोक्ताः किन्तु दशाकारा राजाभियोगाद्या उक्ताः । तेन श्राद्धा रात्रौ सान्नलेपं नीरं न पिबन्ति । अपवादे तु दिनगलिता ले पोल्कालिताम्बु उत्कट रक्षाक्षेपणपरिणतगलिताम्बु च पिबन्ति । मुख्यतः सचित्तत्यागो निशाभोज्यत्यागादन्वेव युक्तः प्रतिमासु तथादर्शनात् । ततः केऽप्यशक्त्याम्बु पिबन्ति परं पानकाकारा नोक्ता एव । चरमे चत्वार इति चरमं द्विधा दिवसचरमं भवचरमं च । द्वयोरपि चत्वारः - अन्न० सह० मह० सङ्घ० । भवचरमं यावज्जीवं स्यात् । दिवसचरमं द्विविधादि स्यात् । भवचरमं त्रिविधाद्येवेति वृद्धाः । ततो नमस्कारस्मरणादिचतुर्विधप्रत्याख्यानं क्रियते तत्पारयित्वाऽनशनी पानं पिवति । पञ्च चत्वारश्चाभिग्रहे । तथा निर्विकृतौ अष्ट नव वाकाराः । तत्राभिग्रहेषु अप्रावरणेऽप्रावरणाभिग्रहे पञ्चाकाराः । यथा कोऽपि अवाउडत्तं पच्चक्खाइ । तत्र अन० सह० चोलपट्टागारेणं मह० सङ्घ० । शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु ग्रन्थि - सहितादिषु च चोलपट्टाकारं विना चत्वार आकाराः । अप्रावृत्तत्वे नियमिते सागारिकागमे चोलपङ्कं गृह्णाती त्यर्थः । निर्विकृत अलेपसंज्ञे द्रवविकृतौ वाष्टाकाराः । अन्यस्मिन्निर्विकृतौ विकृतिप्रत्याख्याने च नव । तत्र दश विकृतयः । For Private & Personal Use Only पौरुष्यादिप्रत्याख्यानानि । ॥ ३९ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106