Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
संविग्नान्यसाम्भोगिकानां तूपदिशेत यथैतानि श्राद्धकुलानि संखडिं च श्रुतां दृष्टा वा दर्शयेत् नानीय दद्यादित्यर्थः । अतरनशक्नुवन् सांभोगिकानामपि दिशेत न दोषः । सति सामर्थ्य साम्भोगिकानां एकमण्डलीकानां ज्ञातेभ्योऽज्ञातेभ्यो वा कुलेभ्यः संखड्या वानीय लब्धिमान् स्वयं दद्यात् । 'उवदेसोति गतम् , यथासमाधिर्नाम यथा यथा साधूनामात्मनो वा समाधिः स्यात्तथा प्रयतितव्यम् । अक्षमस्यान्यमण्डलीसत्कस्याप्यानीय देयम् । 'समाहि 'त्ति गतम् । प्रत्याख्यानशुद्धिमाह
सोही पच्चक्खाणस्स छबिहा समणसमयकेहि ।।
पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ २४८ ॥ श्रमणसमयकेतुभिः साधुसिद्धान्तध्वजरूपैरर्हद्भिः प्रज्ञप्ता । यथा ध्वजः सर्वोच्चस्तथाऽहल्लोकोत्तरः । षड्विधत्वमेवाह
सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव ।
अणुपालणा विसोही भावविसोही भवे छहा ॥ १५८० ॥ सा शुद्धिरेवं षड्विधा श्रद्धानशुद्धिः १ जाननाशुद्धिः २ विनयशुद्धिः ३ अनुभाषणाशुद्धिः ४ अनुपालनाशुद्धिः ५ भावशुद्धिः६॥ १५८० ॥ भाष्यम् , श्रद्धानशुद्धिमाह
पञ्चक्खाणं सबन्नुदेसिअं जं जहिं जया काले। तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ २४९ ॥
%25A5CREA5
%
95
%
Jain Education Internat
For Private & Personal use only
Tww.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106