Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 85
________________ Jain Education Inte प्रत्याख्याने त्रिविधिस्य पौरुष्या वा प्रत्याख्यानं करोमीति वागन्यथा निर्गता चतुर्विधस्य पुरिमार्द्धस्येति, गुरुणापि तथैव दत्तमत्र कः प्रमाणम् ? उच्यते शिष्यस्य मनोगतो भाव इति, यतः अन्नत्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा || १५८६ ।। अन्यत्र इति द्विविधं प्रत्याख्यामीति स्थाने त्रिविधं चतुर्विधं वा प्रत्याख्यामि इति व्यञ्जने शब्दे निपतिते सति यः खलु मनोगतो भावः प्रत्याख्यापयितुरधिकतर संयमयोगाक्षिप्तचेतसो न तु प्रमादात् तत् खलु प्रत्याख्यानं प्रमाणम् । एतेनान्तरालस्थसूक्ष्मविवक्षानिषेधमाह । निश्चिताशयस्यैव प्रामाण्याधिकृतत्वात् व्यञ्जनं शिष्याचार्यवचनं न प्रमाणम्, यतः छलनासौ व्यञ्जनरूपा ।। १५८६ ।। प्रत्याख्यानपालनमाह फासियं पालियं चेव सोहियं तीरियं तहा । किअमाराहि चेव एरिसयंमी पयइयवं । १५८७ ॥ स्पृष्टं प्रत्याख्यानग्रहणकाले विधिना प्राप्तं १ । पालितं पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं २ | शोभितं गुर्वादिप्रदानशेषभोजनासेवनेन ३ | तीरितं पूर्णेऽप्यवधौ यत्किञ्चित्कालावस्थानेन ४ । कीर्त्तितं भोजनवेलायाममुकं प्रत्याख्यानं पूर्णमित्युच्चारणेन ५ । आराधितमेभिरेव कारणैः सम्पूर्ण कृतं ६ । ईदृशि प्रत्याख्याने प्रयतितव्यम् । अत्र क्षेपकगाथा ' उचिए For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106