Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 54
________________ आवश्यक निर्युक्ति दीपिका । ॥ २० ॥ Jain Education Internati काऊ' एतावतापि पूर्वकालगणनेन सामायिकानुष्ठानस्य समर्थितत्वात्, तदुत्तरग्रन्थोक्तस्तु विधिः किमर्थ इति ? अथ गुरुभक्तिप्रतिपादनार्थ इति चेत् तदपि न, यतोऽयमेवानुष्ठानविधिश्चैत्ये पौषधशालायां गृहे वातिदेक्ष्यत इति । तथा यच्च पर्यन्ते 'एसा बिही सामाइयस्य ' इत्युक्तं तदपि न षड्विधावश्यकस्य बाधकं यतो यथा कायोत्सर्गनिर्युक्तौ कायोत्सर्ग प्रस्तूयान्तरा च प्रसङ्गागतं साधूनामावश्यकविधिमभिधाय पुनः कायोत्सर्गस्य निर्वाहः कृतस्तथाऽत्रापि सामायिकवते व्याख्यायमाने प्रस्तावात् सामायिकादिकं श्रावकस्य षडावश्यकमभिधाय पुनः सामायिकस्य निगमनं कृतमिति सम्भावयामः । तथा ' ताहे घरे चैव सामाइयं काऊणं ति' साधूपाश्रये गच्छतो मा कालातिक्रमः सामायिकस्य भवत्विति हेतोर्गृह एव एकमेव सामाकिसूत्रमुच्चार्य शेषानुष्ठानं तत्रैव करिष्यामीति विचिन्त्य साधूपाश्रये व्रजतीति सम्बन्धः । अथ सर्वमप्यनुष्ठानं गृहे कृत्वा किं न गच्छतीति[ चेत् ] उच्यतेऽत्र साधुमूलानुष्ठानस्य प्रस्तुतत्वात् । गृहानुष्ठानमार्ग (मग्रे) चतुर्थस्थाने वक्ष्यति । अतोऽत्र सामाकिसूत्रमात्रोच्चारणमेवावबुध्यते इति । ' करेमि भंते सामाइयमित्यादि ननु आचरणां विना कुतः श्रावकसामायिकसूत्रं लभ्यते । उच्यते यतिश्रावकयोः सामायिकसूत्रमेव केवलं सर्वमिति, जावजीवा इति, तिविहं तिविहेणं ति, करंतं पीत्यादि विशेषाचत्वारः, ते च चूर्णिकृता 'करेमि भंते ! सामाइयं, सावज्जं जोगं पच्चक्खामि, दुविहं तिविहेणं जाव साहू पज्जुवासामी' त्येवं भणता त्रयः साक्षादेव दर्शिताश्चतुर्थोऽपि 'दुविहं तिविहेणं ' ति भणनाल्लब्ध एव । ततश्चैतद्विशेषचतुष्टयविशेषितं यतिसामायिकसूत्रमेव श्रावकोऽपि भणतीति । अयं चार्थ:-' सावञ्जजोग परिवजणडा सामाइयं केवलियं पसत्थं ' इत्यस्या निर्युक्तिगाथाया व्याख्याने भाष्यमहोदधिना वृत्ति 4 For Private & Personal Use Only सामायिक ग्रहणविधिः । ॥ २० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106