Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रवृत्तिवा०
औपपातिकम् ॥३७॥
सू०११
ततोऽनन्तरं, 'ण'मिति वाक्यालङ्कारे 'से' इति असौ 'पवित्तिवाउएत्ति प्रवृत्तिव्यापतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाए'त्ति अस्या भगवदागमनलक्षणायाँ कथायां वार्तायां 'लडढे समाणेत्ति लब्धार्थः सन्-प्राप्तार्थः सन , विज्ञः सन्निस्यर्थः, 'हहतुट्ठचित्तमाणंदिए'त्ति हृष्टतुष्टम्अत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च तोषवञ्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति, एवमानन्दित-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'दिएत्ति नन्दितः-समृद्धितरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य स परमसौमनस्यिकः तद्वाऽस्यास्तीति परमसौमनस्यिका, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद-विस्तारं व्रजद्धदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुव॑स्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥" पहाएत्ति' व्यक्तं, 'कयबलिकम्मे'त्ति स्नानानन्तरं कृतं बलिकम स्वगृहदेवताना येन स तथा । 'कयकोउअमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतर्वाङकुरादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा-स्नानेन शुचिकृतदेहः वेश्यानि-वेशे साधृनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति-द्वितीयाबहुवचनलोपात प्रवराणि-प्रधानानि परिहितो-निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्घाभरणालंकियसरीरेत्ति व्यक्तं, नवरं अल्पानि-स्तोकानि महा_णि-बहुमूल्यानि । 'सआओ'त्ति स्वकात्-स्वकीयात् । जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः । 'बाहिरियत्ति अभ्यन्तरिकापेक्षया बाह्या । 'उवट्ठाणसाल'त्ति आस्थानसभेति । तेणेवात्ति तस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तंति शिरसामस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं बडावेतित्ति जयः-सामान्यो विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थः । 'देवाणुप्पियात्ति सरलस्वभावाः । 'दसणाति अवलोकनं । 'कखंतित्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति । 'पीहंति'त्ति स्पृहयन्ति
EXXXXXXXXXXXXXXXXXXXXXXXXXX
॥३७॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200