Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 164
________________ ॥१५२॥ औपपाति अम्बड० गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति' कम् त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्नत्ति सम्पर्यङ्क-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्'इट्ठति वल्लभं 'कंतति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् 'मणुण्ण ति मनोज्ञं-सुन्दरमित्यर्थः, 'मणाम ति मनसा अम्यतेप्राप्यते पुन: पुन: संस्मरणतो यत्तम्मनोऽमं 'पेजति सर्वपदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं प्रेयं वा कालान्तरनयनात्, 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढः स्थैयसमारोपणात्, ‘बेसासिय'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'समय'ति सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्तद्वहुमतम् 'अणुमय'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा 'मा गं सीय' मित्यादि व्यक्तं, नवरं, माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पशत्विति यथायोगं योजनीयम्, अथवा 'मा णं'ति मा AI एतच्छरीरमिति व्याख्येयं, 'मा णं वाल'त्ति व्याला:-श्वापदभुजगाः 'रोगायक'त्ति रोगाः-कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः ‘फसंतु' स्पृशन्तु 'इतिकट्ट'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालित| मिति शेषः, 'एयपि गंति एतदपि शरीरं 'वोसिरामित्ति कटु' इत्यत्र तिकटुत्ति-इतिकृत्वा इति विसर्जन विधाय विहरन्तीति योगः, 13 सलेहनाझसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झसिअ'त्ति जुष्टा वा सेविता ये ते तथा 'सलेहणझूसणाझूसिय'त्ति 01 क्वचित् तत्र संलेखनायां-कषायशरीरकृशीकरणे या जोषणा-प्रीतिः सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तां वा ये जुष्टा:सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति झूषिताः क्षीणा ये ते तथा, 'भत्तपाणपडियाइविखय'त्ति प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः 'कालं अणवकखमाण'त्ति मरणमनवकाङ्क्षन्तः, आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तनिषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापि पहिवाजक

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200