Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
To मपि वन्दनादिनिषेधो मा भूदितिकृत्वा णण्णत्थेत्याद्यधीतं, 'उच्चावरहिति उच्चावचैः-उत्कृष्टानुत्कृष्टः ४ । 'आउक्खएण'ति आयुःकर्मणो ॥१६॥ दलिकनिर्जरणेन 'भवक्खएणति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणति आयु कर्मणस्तदन्येषां च केषाञ्चित् ।
| स्थितेर्विदलनेनेति 'अणंतरं चयं चइत्त'त्ति देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा-कृत्वेत्यर्थः, ५ । 'अड्डाइंति परिपूर्णानि 'दित्ताईत्ति हिप्तानि दर्पवन्ति 'वित्ताइति वित्तानि-व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसु'त्ति इह क्वचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः, 'पञ्चायाहिति'त्ति 'प्रत्याजमिष्यति उत्पत्स्यतः इत्यर्थः ६ । 'ठिइवडियं काहिति'त्ति स्थितिपतितं-कुलकमान्तर्भूतं पुत्रजन्मोचितम नुष्ठानं करिष्यतः 'चंदसूरदंसणिय'ति चन्द्रसूरदर्शनिकाभिधानं सुरजन्मोत्सवविशेषं 'जागरियति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्अशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधानं तत्तथा, तत्र 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरोत्ति अम्बापितरौ 'इमति इदं वक्ष्यमाणम्, अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात्, 'एयारूवंति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्येतद्रूपं 'गोणति गौणं, किमुक्तं भवती याह'गुणनिप्पण'ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, नामधेज्जति प्रशस्तं नामैव नामधेयम्, । ____इह स्थाने पुस्तकान्तरे पंचवाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येयः, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणे',त्ति हस्ताद्धस्तान्तरं संह्रियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनचिज्जमाणे'त्ति . उपनय॑मानो नर्तन कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषीयमानो गाप्यमानो वा 'उवलालिज्जमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया 'उवगहिज्जमाणे'त्ति उपगूह्यमानः आलिङ्गयमानः 'अवयासिज्जमाणे'त्ति
१'जनक् जनने ह्वादिरयम्' इति न्यायसङ्ग्रहोक्तेर्भवति परस्मैपदेऽपि प्रयोगो जने:
॥१६॥

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200