Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।१८५।।
वर्तन्तेदेशैः प्रदेशश्च ये स्पृष्टाः, केभ्यः ?-सर्वप्रदेशस्पृष्टेभ्यः कथम् ?-सर्वात्मप्रदेशस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात, तथैकैकदेशेनाप्यनन्ता एवमेककप्रदेशेनाप्यनन्ता एव, नवरं देशो-द्वयादिप्रदेशसमुदायः, प्रदेशस्तु-निविभागोंऽश इति, सिद्धश्चासङ्खये यदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्खय यर्देशानन्तकैरसङ्खच रेव च प्रदेशानन्तकेर्गुणितं यथोक्तमेव भवतीति । स्थापना चेयं ॥१०॥ अथ सिद्धानेव लक्षणत आह-'असरीरा'गाहा, उक्तार्था, सङ्ग्रहरूपत्वाच्चास्या न पुनरुक्तत्वमिति ॥११॥ 'उवउत्ता दंसणे य णाणे यत्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-'केवल गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तःकरणोपयुक्ताः, भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणा:-सहवर्तिनः पर्यायास्तु-क्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभिः-केवलदर्शनैरनन्तरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवल दृष्टिभिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥१२॥ अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-'णवि अत्थि'गाहा व्यक्ता, नवरम् 'अव्वाबाहति विविधा आबाधा व्याबाधा तनिषेधादव्याबाधा तामुपगताना-प्राप्तानामिति ।।१३।। कस्मादेवमित्याह-जं देवाणं'गाहा 'यतो'यस्माद्देवानाम्-अनुत्तरसुरान्तानां 'सौख्यं' कालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं-गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवर्गवगितमपि, तत्र तद्गुणो वर्गो यथा-द्वयोर्वर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वगितमपि । चूर्णिकारस्त्वाह-अनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रवृतम् ।।१४।। सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह-सिद्धस्स'गाहा, "सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वादापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तो
॥१८५॥

Page Navigation
1 ... 195 196 197 198 199 200