Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 196
________________ सिद्धस्व० सू० ओपपाति- त्रिभागेन शूषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति कम् ॥४।। अथावगाहनामेवोत्कृष्टादिभेदत आह-तिणि सयेत्यादि, इयं च पञ्चधनुःशतमानाना 'चत्तारि येत्यादि तु सप्तहस्तानाम् ‘एगा ये' त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूध्वं मानमाश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्धयतामन्यथाऽपि स्यादिति । आक्षेपपरिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी तत्प्रमाणैव, ॥१८४॥ "उच्चत्तं चेव कुलगरेहि सम'मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः?, अत्रोच्यते, यद्यप्युच्च वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चव धनुःशतान्यसावभवत्, वृद्धकाले वा साङ्कोचात् पञ्चधनुःशतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टामुलाधिकहस्तप्रमाणा भवतीति ?, अत्रोच्यते, सप्तहस्तोच्छितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्येत्वाहुः-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति ।।७।। 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथति अम प्रकारमापनमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति ।।८।। अथैते कि देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ यगाहा, यत्र च-तत्रैव देशे एकः सिद्धो-निवुत्तस्तत्र देशे अनन्ताः किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवा-वतरणशक्तिमत्सिद्धव्यवच्छेदमाह । अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पयढ़िया'इत्युक्तमिति ॥९॥ तथा फुसई' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशरात्मसम्बन्धिभिः 'णियमसो'त्ति नियमेन सिद्धः, तथा तेऽप्यसङ्ख्य यगुणा १ उच्चत्वं चैव कुलकरैः समं.

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200