SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ।।१८५।। वर्तन्तेदेशैः प्रदेशश्च ये स्पृष्टाः, केभ्यः ?-सर्वप्रदेशस्पृष्टेभ्यः कथम् ?-सर्वात्मप्रदेशस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात, तथैकैकदेशेनाप्यनन्ता एवमेककप्रदेशेनाप्यनन्ता एव, नवरं देशो-द्वयादिप्रदेशसमुदायः, प्रदेशस्तु-निविभागोंऽश इति, सिद्धश्चासङ्खये यदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्खय यर्देशानन्तकैरसङ्खच रेव च प्रदेशानन्तकेर्गुणितं यथोक्तमेव भवतीति । स्थापना चेयं ॥१०॥ अथ सिद्धानेव लक्षणत आह-'असरीरा'गाहा, उक्तार्था, सङ्ग्रहरूपत्वाच्चास्या न पुनरुक्तत्वमिति ॥११॥ 'उवउत्ता दंसणे य णाणे यत्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-'केवल गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तःकरणोपयुक्ताः, भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणा:-सहवर्तिनः पर्यायास्तु-क्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभिः-केवलदर्शनैरनन्तरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवल दृष्टिभिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥१२॥ अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-'णवि अत्थि'गाहा व्यक्ता, नवरम् 'अव्वाबाहति विविधा आबाधा व्याबाधा तनिषेधादव्याबाधा तामुपगताना-प्राप्तानामिति ।।१३।। कस्मादेवमित्याह-जं देवाणं'गाहा 'यतो'यस्माद्देवानाम्-अनुत्तरसुरान्तानां 'सौख्यं' कालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं-गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवर्गवगितमपि, तत्र तद्गुणो वर्गो यथा-द्वयोर्वर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वगितमपि । चूर्णिकारस्त्वाह-अनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रवृतम् ।।१४।। सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह-सिद्धस्स'गाहा, "सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वादापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तो ॥१८५॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy