________________
ऑपपाति- अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे' लोकालोकरूपे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाहादरूपं सुखं
o सिद्धस्व.
। कम्
सू० ४३ गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसाबाह्लादो विशिष्यते यावदनन्तगुणवृद्धया निरतिशयनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतकान्तिकौत्सुक्यविनिवृत्तिरूपः रितमिततमहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां
भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवतिनो ये तारतम्येनालादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं-'सव्वा11१८६॥
गासे ण माएज्ज'त्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति ॥
अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थः-य एते सुखभेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवतित्वेनोपचारात्, तद्राशिश्च किलासद्भाबस्थापनया सहस्र समयराशिस्तु शतं, सहस्र च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिना सुखपर्यायाणां मीलनार्थ, तथाऽनन्तराशि: किल दश, तद्वर्गश्च शतं, तेनापतितं लक्षं जातं सहस्रमेव, अतः पज्यैरुक्तं 'समीभूत एवेति भावार्थ इति, यह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्वरूपेणापतिते किञ्चिदवशिष्यते, स राशिरतिमहान् , ततश्च सिद्धसुखराशिमहानिति बुद्धिजननार्थ शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति । अन्ये पुनरिमां गाथामेवं व्याख्यान्ति-सिद्धसुखपर्याय राशिः नभःप्रदेशाग्रगुणितनभःप्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां, सर्वाद्धापिण्डितः-सर्वसमयसम्बन्धी सङ्कलितः सन , स चानन्तैः अनन्तशो इत्यर्थः, वर्ग:-वर्गमूलभक्तः-अपवतिः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशच्चेति (६५५३६), स च वर्गणापवर्तितः सन जाते द्वे शते षट्पञ्चाशदधिके (२५६) सोऽपि स्ववर्गापतितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येवमतिलघुकृतोऽपि सर्वाकाशे न मायाद् एतदेवाह-'सव्वागासे-'सव्वागासे न माएज'त्ति ।।१५।। अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह-'जह' गाहा, पूर्वाधं व्यक्तं 'न चएइ'त्ति न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कृत इत्याह-उपमायां
तक