SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥१८७॥ त्वत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम् म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ।।१।। म्लेच्छेनासौ नपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥२॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां भाजनं जनपूजितः ।।३।। ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च । वृतो विलासिनीसाथै क्ते भोगसुखान्यसौ ॥४॥ अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स मनोहरम् ॥५॥ जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः ॥६।। पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? । स स्वभावान् पुरः सर्वान् जानात्येव हि केवलम् ॥७॥ न शशाक तका (तरां) तेषा, गदितुं स कृतोद्यमः बने बनेचराणां हि, नास्ति सिद्धोपमा यत: (तथा) ॥॥१६ । अथ दाष्टान्तिकमाह-'इय' गाहा, 'इति' एवम्-अरण्ये नगरगुण इवेत्यर्थः सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह 'एतो'त्ति आर्षत्वादस्य सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्-उपमानम् 'इदं वक्ष्यमाणं शृणुत | वक्ष्ये इति ।।१७।। 'जहगाहा, 'यथे'त्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेष व्यक्तम्, इह च रसनेन्द्रियमेवा- | धिकृत्येष्टविषयप्राप्त्या औत्सुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्त्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम, अन्यथा बाधान्तरसम्भवात् सुखा| र्थाभाव इति ॥१८॥ 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः ,शाश्वतं' 'सर्वकालभावि' 'अव्याबाघ' व्याबाधावजितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः सुख प्राप्ता इत्युक्ते सुखिन इत्यनकिमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमप्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥१९॥ साम्प्रतं वस्तुत: सिद्धपर्यायशब्दान प्रतिपादयन्नाह-'सिद्धत्ति य' गाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धा इति केवलज्ञानेन विश्वावबोधात, पारगता इति च भवार्णवपारगमनात् परंपरगयत्ति १८७।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy