________________ औपपाति सीद्धस्व० सू० 4 // 188 // पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्त्युपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति / / 20 / / 'निच्छण्ण'गाहा 'अतुल'गाहा व्यक्तार्थ एवेति / / 21-22 / / इति श्रीऔपपातिकवृत्तिः समाप्तेति // चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकरूपतरोः / कुसुमोपमस्य सूरेः गणसौरभभरितभवनस्य // 1 // निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्वस्य / शिष्येणाभयदेवाल्यसूरिणेयं कृता वृत्तिः // 2 // अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन / पण्डितगुणेन गुणवस्त्रियेण संशोधिता चेयम् / / 3 / / , ग्रन्थानम् 3125 / / अक्षरगणनया स्थापितमिति // // इति श्रीमदभयदेवसूरिसूत्रितश्रीमद्रोणाचार्यशोधितवृत्तियुतमौपपातिकमाद्यमपाङ्गं समाप्तम् // // 188