Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 171
________________ ।। १५९ ।। प्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहे' त्यादिविशेषणत्रयं 'नोच्यते, अवंगुयदुवारे, ति अपावृत्तद्वार:- कपाटादिभिरस्थगितगृहद्वारः, सहर्शनलाभेन न कुतोऽपि पाषण्डिकाविभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, 'केचित्त्वाहुः - भिक्षुक प्रवेशार्थमौदार्यादस्थगिपगृहद्वार इत्यर्थः इदं चाम्मडस्य न घटते, 'चियत्तअंतेउरघरदारपवेसी'ति चियत्तोत्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्र्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः अन्ये त्वाहुः - चियत्तोत्ति - नाप्रीतिकरोऽन्त पुरगृहे द्वारेण नापद्वारेण प्रवेश :- शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति क्वचिदेवं दृश्यते - 'चियतघरंते उरपंवेसी 'ति चियत्तेत्ति- प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा त्यक्तो वा गृहान्तः पुरोरकस्मात प्रवेशो येन स तथा, चउद्दस अट्टमुट्ठिपुण्णमासिणीसु त्ति उद्दिष्टा - अमावास्या 'पडिपुण्णं पोसहं अणुपालेमाणे त्ति आहार पौषधादिभंदाच्चतरूपमपीति, समणे निग्गंथे फासुएस णिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गह कम्बलपायपुच्छणेणं अत्र च पडिग्गहत्ति-प्रतिग्रहः पतग्रहो वा पात्र पायपुच्छति पादप्रोक्षणं रजोहरणं ओसह मे सज्जेणं, ति औषधम् एकद्रव्याश्रथं भैषज्यं द्रव्यसमुदायरूपमथवा औषधं त्रिफलादि भैषज्यं पृथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाहे माणे 'त्ति प्रतिहारः- प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं तेन पीठम् आसनं फलकम् - अवष्टुम्भनार्थः काष्ठविशेषः शय्या वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरं शयनमेव 'सीलव्वयगुणवेरमणपच्चक्खाणपोस होववासेहि अहापरिगहिएहि तवोकम्मेहि अप्पाणं भावेमाणे त्ति शीलव्रतानि - अणुव्रतानि गुणा - गुणव्रतानि विरमणानि - रागादिविरतिप्रकाराः प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधोपवास:- अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'णो कप्पइ अवखसोयप्यमाणमेत्तंपि जलं सयराहं १ स्वावासस्थानापेक्षया वा स्यादपि, आगतस्याणिनो याचनापूर्णकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशालां तथाविधां कुयुः, उल्लिखित स्फटिकवद्वा निर्मलान्तःकरण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषले शावकाश:. Xexe ।। १५९ ।।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200