Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 170
________________ सू०४० औपपाति IA अम्मडा त्रयमुत्पन्नमित्यर्थः, वाचनान्तरे 'वीरियलद्धी वेउब्वियलद्धी'त्ति पठ्यते, यत्क्वचित् 'अम्म (म्ब) डे परिव्वायगे'त्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य नि कम् । स्थानाङ्गादिपुस्तकेषु दर्शनात् २ । 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्-'उवलद्धपुण्णपावे" आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गा निर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेज्ज'त्ति अविद्यमानसाहाय्यः कुतीथिकप्रेरितः सन् सम्यक्त्वा॥१५८।। | विचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइएहि निग्गंथाओ पावयणाओ अणइक्कमणिज्जे' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः, यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः' गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणेत्ति अस्मिन्निर्ग्रन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देहः 'निक्कंखिय'त्ति मुक्तदर्शनान्तरपक्षपात: निविइमिच्छे'त्ति निविचिकित्सक: फलं प्रति निःशङ्कः 'लद्धट्ठ'त्ति लब्धार्थोऽर्थश्रवणतः 'गहियटे'त्ति गृहीतार्थोऽवधारणतः पुच्छिय?'त्ति पृष्टार्थः संशये सति 'अहिगयटे'त्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् 'विणिच्छियट्टे'त्ति विनिश्चितार्थः 'ऐदम्पर्योपलम्भात्, अत एब 'अद्विमिजपेम्माणुरागरत्ते' अस्थीनि च-कीकसानि मिला च-तन्मध्यवर्ती धातुविशेष: अस्थिमिजास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनol प्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अट्टे अयं परमट्ठ सेसे अण8'त्ति अयमिति-प्राकृतत्वादिदम् 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमो निग्गन्थे' इति दृश्यते' 'सेसे'त्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, 'ऊसियफलिहें'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्कटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्वीनः, कपाटपश्चाद्भागादपनीत R इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गहद्वारे यस्यासौ उच्छितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुक ॥१५८॥

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200