________________
सू०४०
औपपाति
IA अम्मडा त्रयमुत्पन्नमित्यर्थः, वाचनान्तरे 'वीरियलद्धी वेउब्वियलद्धी'त्ति पठ्यते, यत्क्वचित् 'अम्म (म्ब) डे परिव्वायगे'त्ति दृश्यते तदयुक्तं, अम्मडे इत्येतस्य नि कम् ।
स्थानाङ्गादिपुस्तकेषु दर्शनात् २ । 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्-'उवलद्धपुण्णपावे" आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाः-प्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रिया:-कायिक्यादिकाः अधिकरणानि-खड्गा
निर्वर्तनसंयोजनानि बन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेज्ज'त्ति अविद्यमानसाहाय्यः कुतीथिकप्रेरितः सन् सम्यक्त्वा॥१५८।।
| विचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिण्णरकिंपुरिसगरुलगंधवमहोरगाइएहि निग्गंथाओ पावयणाओ अणइक्कमणिज्जे' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः, यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः' गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणेत्ति अस्मिन्निर्ग्रन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देहः 'निक्कंखिय'त्ति मुक्तदर्शनान्तरपक्षपात: निविइमिच्छे'त्ति निविचिकित्सक: फलं प्रति निःशङ्कः 'लद्धट्ठ'त्ति लब्धार्थोऽर्थश्रवणतः 'गहियटे'त्ति गृहीतार्थोऽवधारणतः पुच्छिय?'त्ति पृष्टार्थः संशये सति 'अहिगयटे'त्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् 'विणिच्छियट्टे'त्ति विनिश्चितार्थः 'ऐदम्पर्योपलम्भात्,
अत एब 'अद्विमिजपेम्माणुरागरत्ते' अस्थीनि च-कीकसानि मिला च-तन्मध्यवर्ती धातुविशेष: अस्थिमिजास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनol प्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अट्टे अयं परमट्ठ सेसे अण8'त्ति
अयमिति-प्राकृतत्वादिदम् 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमो निग्गन्थे' इति दृश्यते' 'सेसे'त्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, 'ऊसियफलिहें'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्कटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या
परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्वीनः, कपाटपश्चाद्भागादपनीत R इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गहद्वारे यस्यासौ उच्छितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुक
॥१५८॥