________________
।। १५९ ।।
प्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहे' त्यादिविशेषणत्रयं 'नोच्यते, अवंगुयदुवारे, ति अपावृत्तद्वार:- कपाटादिभिरस्थगितगृहद्वारः, सहर्शनलाभेन न कुतोऽपि पाषण्डिकाविभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, 'केचित्त्वाहुः - भिक्षुक प्रवेशार्थमौदार्यादस्थगिपगृहद्वार इत्यर्थः इदं चाम्मडस्य न घटते, 'चियत्तअंतेउरघरदारपवेसी'ति चियत्तोत्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्र्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः अन्ये त्वाहुः - चियत्तोत्ति - नाप्रीतिकरोऽन्त पुरगृहे द्वारेण नापद्वारेण प्रवेश :- शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति क्वचिदेवं दृश्यते - 'चियतघरंते उरपंवेसी 'ति चियत्तेत्ति- प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा त्यक्तो वा गृहान्तः पुरोरकस्मात प्रवेशो येन स तथा, चउद्दस अट्टमुट्ठिपुण्णमासिणीसु त्ति उद्दिष्टा - अमावास्या 'पडिपुण्णं पोसहं अणुपालेमाणे त्ति आहार पौषधादिभंदाच्चतरूपमपीति, समणे निग्गंथे फासुएस णिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गह कम्बलपायपुच्छणेणं अत्र च पडिग्गहत्ति-प्रतिग्रहः पतग्रहो वा पात्र पायपुच्छति पादप्रोक्षणं रजोहरणं ओसह मे सज्जेणं, ति औषधम् एकद्रव्याश्रथं भैषज्यं द्रव्यसमुदायरूपमथवा औषधं त्रिफलादि भैषज्यं पृथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाहे माणे 'त्ति प्रतिहारः- प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं तेन पीठम् आसनं फलकम् - अवष्टुम्भनार्थः काष्ठविशेषः शय्या वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरं शयनमेव 'सीलव्वयगुणवेरमणपच्चक्खाणपोस होववासेहि अहापरिगहिएहि तवोकम्मेहि अप्पाणं भावेमाणे त्ति शीलव्रतानि - अणुव्रतानि गुणा - गुणव्रतानि विरमणानि - रागादिविरतिप्रकाराः प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधोपवास:- अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'णो कप्पइ अवखसोयप्यमाणमेत्तंपि जलं सयराहं १ स्वावासस्थानापेक्षया वा स्यादपि, आगतस्याणिनो याचनापूर्णकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशालां तथाविधां कुयुः, उल्लिखित स्फटिकवद्वा निर्मलान्तःकरण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषले शावकाश:.
Xexe
।। १५९ ।।