Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
औपपातिकम्
॥१६॥
अम्मडा. उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् हेलयेत्यर्थः ३ । 'आहाकम्मिए' इत्यादि व्यक्तं, fol
स० ४० नवरं 'रइय इ बत्ति रचितम्-औद्दशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तदचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'कान्तारभत्ते इ बत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत्संस्क्रियते । तत्कान्तारभक्तमिति, 'दुभिक्खभत्ते इ वति दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुभिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'बद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं (मेघजं तमः) 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ वत्ति प्राघूर्णकःकोऽपि क्वचिद्गतो यत्प्रतिसिद्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्णकभक्तं 'मूलभोयणे इ वत्ति मूलानि-द्मासि (पद्मसीना) टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः 'फलभोयणे इ बत्ति फलानि आम्रादीनां 'हरियभोयणे इ वत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि 'बीयभोयणे इ वत्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए वति पातुं वा आधाकर्मकादिपानकादिनीति ५ । 'अवज्झाणायरिए'त्ति अपध्यानेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, 'पमादायरिए,त्ति प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन ! आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्ड: प्रमादाचरितः प्रमादाचरितं वेति हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे'त्ति पापकर्मोपदेश:-कृष्याधुपदेशः प्रयोजनं विनेति, सावज्जेत्तिकटु'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावधमितिकृत्वा, सावद्यमपि कथमित्याह-जीवतिकट्टत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त गृहृतीत्यत आह-सावद्यमितिकृत्वा, एतदेव कृत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अण्णा .थए वत्ति अन्ययूथिका-अर्हत्सवापेक्षया अन्ये शाक्यादय: 'चेइयाईत्ति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः ‘णण्णत्थ अरहतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहदभ्यः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हता

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200