Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
XX
कम्
औपपाति तथा वीचयो - महाकल्लोलास्तैः प्रसृतश्च विस्तारमुपगतः स चासौ क्षीरोदकश्च - क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः-प्रकृष्टः प्रवाहः स तथा तद्वचञ्चला यास्तास्तथा ताभि:, 'माणससरपरिसर- परिचियावासविसयवेसाहि' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्ध:, मानसाभिधानसरसः परिसरे प्रान्ते परिचितः पुनः पुनः कृत आवासो - निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहि' कनकगिरेः - मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'ओवइयउप्पइयतुरिय - चवलजइणसिग्द्यवेगाहिं' अवपतितोत्पतितयोः - निपतनोत्पतनयोस्त्वरितचपलः - अत्यन्तचपलः जविनः - शीघ्रो वेगवंता मध्येऽतिशिघ्र वेगो - गतिविशेषो यासां तास्तथा ताभि:, 'हंसवधूयाहि चैव कलिए' हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलत्वेन | दण्डो परिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'णाणामणिकणगरयणविमलमहरिहत वणिजुज्जलविचित्तदंडाह' नानामणिकनकरत्नानां सम्बन्धिनो निर्मला महरिहत्ति - महार्घास्तपनीयोज्ज्वलाः- रक्तवर्ण सुवर्णदीप्राः विचित्रा - विविधचित्रा दण्डा यासां तास्तथा, 'चिलियाहि' दीप्यमानाभिनाभिर्वा नरवइसिरिसमुदयपगासणक रोहि' ति व्यक्तं, 'वरपट्टणुग्गयाहि' प्रधानपत्तनसमुद्भवाभिः वरपत्तने हि वराः शिल्पिनो भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् अथवा वरपट्टनात् प्रधानाच्छादनकोशकादुद्गता - निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहि ति व्यक्तं, 'कालागुरु- पवरकुंदुरुक्क - तुरुक्क - वरवण्णवासगंधुद्ध याभिरामाहि' कालागुरुः- कृष्णागुरुः प्रवरकुन्दुरुक्क - सच्चीडा-तुरुक्कं - सिल्हकं करवर्ण -प्रधानचन्दनं एतैर्यो वासो - वासनं तस्माद्यो गन्धः -सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा-रम्या यास्तास्तथा ताभिः 'सललियाहि 'ति व्यक्तम्, 'उभओ पासंवित्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्यमाणाहि चामराहि' ति व्यक्तं कलित इति वर्तते, सुहसीयलवायवीइयंगे' ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्ग यस्य स तथेति ।
ॐ प्रवरश्वासौ कन्दः तस्य रुक् इव रुक् यस्य प्रवरकुन्दरुक् स एव प्रवरकुन्दरबकः तम् चीडा इति भाषायाम, तुरूवकं तुरुक्कमिति रुढः
॥११०॥
कोणिक ० सू० ३१
।। ११० ।।

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200