Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
पर्युपास
कम्
औपपाति
'वयणणालासहस्सेहिं अभिथुव्वमाणे'त्ति व्यक्तं, 'कतिसोभग्गगुणेहि पत्थिजमाणे २' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो-भर्तृतया स्वामितया लि
वा जनेनाभिलष्यमाणः मंजुमंजुणा घोसेण पडिपुच्छमाणे' मञ्जमञ्ज ना-अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् -प्रश्नयन् प्रणमतः स्वS रूपादिवा 'पडिबुज्जमाणोत्ति पाठान्तरे प्रतिबुद्धधमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणे'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानः IN
-अनपह्रियमाणमानस ईत्यर्थः, 'समइच्छमाणे'त्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंतोतलतालतुडियगीयवाइयरवेण' व्य- 2 क्तमेव, किंविधेन रवेणेत्याह-मधुरेण, अत एव 'मणहरेणं' तथा 'जयसह ग्घोसविसएणं मजमजणा घोसेणं'ति जयेति शब्दस्याभिधानस्य उद्घोष:-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मञ्जमञ्जना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे त्ति प्राग्वत्, 'कदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दों गिरीणां विवरकुहराणि-गुहाः पर्वतान्त राणि वा गिरिवरा:-प्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानिप्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत आरामाः-पुष्पजातिप्रधानाः वनषण्डाः, उद्यानानि-पुष्पादिमवृक्षयुक्तानि काननानि-नग
राद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागा देशा॥१२२॥
स्तु-महत्तराः, 'पडिसद्द (डिसुआ)सयसहस्ससंकुलं करते' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कु लान् कुर्वन कूणिको निर्गच्छतोति सम्बन्धः तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान वेत्यनेन, ' 'सुगंधवरकुसुमचण्णउम्विद्धवासरेणुकविलं नभं करते' सुगन्धोनां वरकुसुमानां चूर्णानां च उव्विद्धः--उर्ध्व गतो यो वासरेणुः-वासकं रजः-तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन् , 'कालागुरुकुंदुरुक्चतुरुक्कधूवनिव
हेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत 'समंतओ खुभियचक्कवाल' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि र यत्र निर्गमने तत्तथा तद्यथा भवतीत्यवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पउरजणबालवुड्ढपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं
॥१२२॥

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200